________________
षष्ठाध्यायस्य प्रथमः पादः
१०७ अन्वय:-संहितायाम् अव्यक्तानुकरणस्यात इतौ पूर्वपरयो: पररूपमेकः ।
अर्थ:-संहितायां विषयेऽव्यक्तध्वनेरनुकरणस्य योऽत्-शब्दस्तस्माद् इति-शब्दे परत: पूर्वपरयो: स्थाने पररूपमेकादेशो भवति।
उदा०-पटत् इति=पटिति। घटत् इति घटिति। झटत् इति= झटिति । छमत् इति छमिति।
__आर्यभाषा: अर्थ- (संहितायाम्) संन्धि-विषय में (अव्यक्तानुकरणस्य) अव्यक्त ध्वनि के अनुकरण के (अत:) 'अत्' शब्द से उत्तर (इतौ) इति शब्द परे होने पर (पूर्वपरयो:) पूर्व-पर के स्थान में (पररूपम्) पररूप (एक:) एकादेश होता है।
___ उदा०-पटत् इति-पटिति । पटत् ऐसी अव्यक्त ध्वनि-पटिति । घटत् इति-घटिति। घटत् ऐसी अव्यक्त ध्वनि-घटिति । झटत् इति झटिति । झटत् ऐसी अव्यक्त ध्वनि-झटिति। छमत् इति छमिति । छमत् ऐसी अव्यक्त ध्वनि-छमिति।
सिद्धि-पटिति । पटत्+इति। पट्+इति। पटिति।
यहां पटत्' यह किसी अव्यक्त ध्वनि का अनुकरण है, इसके 'अत्' शब्द से उत्तर इति' शब्द परे होने पर पूर्व-पर के स्थान में इस सूत्र से पररूप (इ) एकादेश होता है। ऐसे ही-घटिति, झटिति, छमिति ।
पररूप-प्रतिषेधः
(२८) नामेडितस्यान्त्यस्य तु वा।६६ । प०वि०-न अव्ययपदम्, आमेडितस्य ६।१ अन्त्यस्य ६१ तु अव्ययपदम्, वा अव्ययपदम् ।
अनु०-संहितायाम्, एक:, पूर्वपरयो:, पररूपम्,, अव्यक्तानुकरस्य, अत:, इताविति चानुवर्तते।
अन्वय:-संहितायाम् आमेडितस्याव्यक्तानुकरणस्यात इतौ पूर्वपरयो: पररूपमेको न, अन्त्यस्य तु वा।
अर्थ:-संहितायां विषये आमेडितसंज्ञकस्याव्यक्तानुकरणस्य योऽत्शब्दस्तस्माद् इतौ परत: पूर्वपरयोः स्थाने पररूपमेकादेशो न भवति, तस्यान्त्यस्य तकारस्य तु विकल्पेन पररूपमेकादेशो भवति ।