________________
६०
निपातनम्---
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(१०) क्षय्यजय्यौ शक्यार्थे । ८१ ।
प०वि० - क्षय्य - जय्यौ १ । २ शक्यार्थे ७ । १ ।
स०-क्षय्यश्च जय्यश्च तौ क्षय्यजय्यौ ( इतरेतरयोगद्वन्द्वः) । शक्यश्चासावर्थः शक्यार्थ:, तस्मिन् - शक्यार्थे (कर्मधारयतत्पुरुषः) । अनु० - संहितायाम्, यि, प्रत्यये इति चानुवर्तते । अन्वयः -संहितायां शक्यार्थे क्षय्यजय्यौ यि प्रत्यये ।
अर्थ:-संहितायां विषये शक्यार्थे क्षय्यजय्यौ शब्दौ यकारादौ प्रत्यये परतो निपात्येते ।
उदा०- (क्षय्यः) क्षेतुं शक्यः क्षय्यः । (जय्यः ) जेतुं शक्यः-जय्यः ।
आर्यभाषाः अर्थ- (संहितायाम् ) सन्धि- विषय में (शक्यार्थे) शक्य अर्थ में (क्षय्यजय्यौ) क्षय्य और जय्य शब्द ( यि) यकारादि ( प्रत्यये) प्रत्यय परे होने पर निपातित हैं। उदा०- (क्षय्य) क्षीण कर सकने योग्य-क्षय्य । (जय्य) जीत सकने योग्य - जय्य । सिद्धि-क्षय्यः । क्षि+यत् । क्षे+य । क्ष् अय्+य । क्षय्य+सु । क्षय्यः ।
1
यहां 'क्षि क्षये' ( वा०प०) धातु से 'अचो यत्' (३ 1१1९७ ) से 'यत्' प्रत्यय है 'सार्वधातुकार्धधातुकयोः' (७/३/८४) से 'क्षि' इगन्त अंग को गुण (ए) होता है। इस सूत्र से यकारादि प्रत्यय परे होने पर एच् (ए) के स्थान में 'अय्' आदेश निपातित है । वैयाकरण 'क्षि निवासगत्यो:' (तु०प०) क्षि हिंसायाम्' (स्वा०प०) धातु से भी 'क्षय्य: ' शब्द की सिद्धि मानते हैं। ऐसे ही 'जि जये' (भ्वा०प०) धातु से - जय्य: ।
निपातनम्
(११) क्रय्यस्तदर्थे । ८२
प०वि० - क्रय्य: १ ।१ तदर्थे ७।१ ।
स०-तस्यार्थः-तदर्थ:, तस्मिन् - तदर्थे (षष्ठीतत्पुरुष: ) । अनु०-संहितायाम्, यि, प्रत्यये इति चानुवर्तते । अन्वयः -संहितायां तदर्थे क्रय्यो यि प्रत्यये ।
अर्थ:-संहितायां विषये तदर्थे क्रयार्थे क्रय्यः शब्दो यकारादौ प्रत्यये परतो निपात्यते ।