________________
४२१
पञ्चमाध्यायस्य चतुर्थः पादः अन्वय:-कृञ्योगे निष्कोषणे निष्कुलाइ डाच् ।
अर्थ:-कृञ्योगे निष्कोषणे चार्थे वर्तमानाद् निष्कुलशब्दात् प्रातिपदिकाड् डाच् प्रत्ययो भवति।
उदा०-निष्कुलं करोति-निष्कुला करोति पशून् । पशूनामान्तरिकावयवानां बहिर्निष्कर्षणं करोतीत्यर्थः ।
आर्यभाषा: अर्थ-(कृञः) कृञ् के योग में और (निष्कोषणे) बाहर निकालना अर्थ में विद्यमान (निष्कुलात्) निष्कुल प्रातिपदिक से (डाच्) डाच् प्रत्यय होता है।
___ उदा०- पशुओं को निष्कुल करता है-निष्कुला करता है। पशुओं के आन्तरिक अवयवों (आंत आदि) को बाहर निकालता है।
सिद्धि-निष्कुला करोति । यहां कृञ् के योग में और निष्कोषण अर्थ में विद्यमान निष्कुल' शब्द से इस सूत्र से डाच् प्रत्यय है। शेष कार्य पूर्ववत् है।
आनुलोम्यार्थप्रत्ययविधिः
डाच्
(१) सुखप्रियादानुलोम्ये।६३। प०वि०-सुख-प्रियात् ५।१ आनुलोम्ये।६३ ।
स०-सुखं च प्रियं च एतयो: समाहार: सुखप्रियम्, तस्मात्-सुखप्रियात् (समाहारद्वन्द्वः)। आनुलोम्यम्=अनुकूलता, आराध्यस्वाम्यादीनां चित्तानुवर्तनम्।
अनु०-डाच्, कृञ इति चानुवर्तते । अन्वय:-कृञ्योगे आनुलोम्ये सुखप्रियाड् डाच् ।
अर्थ:-कृञ्योगे आनुलोम्ये चार्थे वर्तमानाभ्यां सुखप्रियाभ्यां प्रातिपदिकाभ्यां डाच् प्रत्ययो भवति ।
उदा०-(सुखम्) सुखं करोति-सुखा करोति, स्वामिनश्चित्तमाराधयतीत्यर्थ: । (प्रियम्) प्रियं करोति-प्रिया करोति । स्वामिनश्चित्तमनुवर्तयतीत्यर्थः ।
आर्यभाषा: अर्थ-(कृञः) कृञ् के योग में और (आनुलोम्ये) अनुकूलता अर्थ में विद्यमान (सुखप्रियात्) सुख, प्रिय प्रातिपदिकों से (डाच्) डाच् प्रत्यय होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org