________________
३३८
पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-नीतौ, तद्युक्तात्, मनुष्यनाम्न:, कन् इति चानुवर्तते ।
अन्वयः-तयुक्ताद् मनुष्यनाम्नोऽजिनान्तात् कन्, उत्तरपदलोपश्च, नीतौ।
___ अर्थ:-तयुक्तात् अनुकम्पायुक्ताद् मनुष्यवाचिनोऽजिनान्तात् प्रातिपदिकात् कन् प्रत्ययो भवति, तस्य उत्तरपदस्य च लोपो भवति, नीतौ गम्यमानायाम्।
उदा०-अनुकम्पितो व्याघ्राजिनो नाम मनुष्य:-व्याघ्रकः । सिंहकः ।
आर्यभाषा: अर्थ-(तद्युक्तात्) अनुकम्पा अर्थ से युक्त (मनुष्यनाम्न:) मनुष्य-वाचक (अजिनान्तस्य) अजिन शब्द जिसके अन्त में है उस प्रातिपदिक से (कन्) कन् प्रत्यय होता है (च) और (उत्तरपदलोप:) उसके उत्तरपद का लोप होता है (नीतौ) यदि वहां साम आदि नीति अर्थ की प्रतीति हो।
उदा०-अनुकम्पित व्याघ्राजिन नामक मनुष्य-व्याघ्रक । अनुकम्पित सिंहाजिन नामक मनुष्य-सिंहक। व्याघ्राजिन-व्याघ्रचर्म धारण करनेवाला।
सिद्धि-व्याघ्रकः । व्याघ्राजिन+सु+कन् । व्याघ्र०+क। व्याघ्रक+सु । व्याघ्रकः ।
यहां अनुकम्पा अर्थ से युक्त, अजिनशब्दान्त, मनुष्यवाचक व्याघ्राजिन' शब्द से नीति अर्थ अभिधेय में इस सूत्र से कन्' प्रत्यय और उसके उत्तरपद अजिन' शब्द का लोप होता है। ऐसे ही-सिंहकः । लोप-विधिः
(८) ठाजादावूर्ध्वं द्वितीयादचः।८३| प०वि०-ठ-अजादौ ७१ ऊर्ध्वम् ११ द्वितीयात् ५।१ अच: ५।१।
स०-अच् आदिर्यस्य सः-अजादि, ठश्च अजादिश्च एतयो: समाहार:-ठाजादिः, तस्मिन्-ठाजादौ (बहुव्रीहिगर्भितसमाहारद्वन्द्व:)।
अनु०-मनुष्यनाम्न:, लोप इत्यनुवर्तते । अन्वय:-मनुष्यनाम्न: प्रातिपदिकस्य द्वितीयादच ऊर्ध्वं लोपष्ठाजादौ ।
अर्थ:- नीतौ च तद्युक्तात्' (५।३।७७) इत्यस्मिन् प्रकरणे मनुष्यनाम्न: प्रातिपदिकस्य द्वितीयादच ऊर्ध्वं यच्छब्दरूपं तस्य लोपो भवति, ठ-अजादौ प्रत्यये परतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org