________________
३१२
रूप्यः+चरट्
(२) षष्ठ्या रूप्य च । ५४ ।
प०वि०-षष्ठ्याः ५।१ रूप्य १।१ (सु - लुक् ) च अव्ययपदम् । अनु० - भूतपूर्वे, चरट् इति चानुवर्तते । अन्वयः-षष्ठ्याः प्रातिपदिकाद् भूतपूर्वे रूप्यश्चरट् च । अर्थः-षष्ठ्यन्तात् प्रातिपदिकाद् भूतपूर्वेऽर्थे रूप्यश्चरट् च प्रत्ययो भवति । अत्र भूतपूर्वपदं प्रत्ययार्थविशेषणं न तु प्रकृत्यर्थविशेषणम् । उदा०-देवदत्तस्य भूतपूर्वो गौ: - देवदत्तरूप्यः (रूप्यः ) । देवदत्तचर: (चरट्) ।
पाणिनीय-अष्टाध्यायी-प्रवचनम्
आर्यभाषाः अर्थ-(षष्ठ्याः) षष्ठो- अन्त प्रातिपदिक से (भूतपूर्वे) भूतपूर्व अर्थ में (रूप्यः) रूप्य (च) और (चरट्) चरट् प्रत्यय होते हैं ।
उदा०-देवदत्त का भूतपूर्व गौ:- बैल - देवदत्तरूप्य (रूप्य ) । देवदत्तचर (चर ) | सिद्धि-(१) देवदत्तरूप्यः । देवदत्त + ङस् +रूप्य । देवदत्तरूप्य+सु। देवदत्तरूप्यः। यहां षष्ठ्यन्त देवदत्त' शब्द से भूतपूर्व अर्थ में इस सूत्र से 'रूप्य' प्रत्यय है (२) देवदत्तचरः। यहां षष्ठ्यन्त देवदत्त' शब्द से भूतपूर्व अर्थ में इस सूत्र से 'चरट्' प्रत्यय है।
1
अतिशायनविशिष्टार्थप्रत्ययप्रकरणम्
तमप्-इष्ठन्
(१) अतिशायने तमबिष्ठनौ । ५५ । प०वि०- अतिशायने ७ । १ तमप् इष्ठनौ १ । २ । स०-तमप् च इष्ठन् च तौ तमबिष्ठनौ (इतरेतरयोगद्वन्द्वः) । अन्वयः-अतिशायने प्रातिपदिकात् तमबिष्ठनौ। अर्थः-अतिशायने=प्रकर्षेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे तमबिष्ठनौ प्रत्ययौ भवतः। अतिशयनमेव - अतिशायनम्, अत्र निपातनाद्दीर्घत्वम्, प्रकृत्यर्थविशेषणं चैतत्।
उदा०-सर्वे इमे आढ्याः, अयमेषामतिशयेनाऽऽढ्यः-आढ्यतमः । दर्शनीयतमः । सुकुमारतमः ( तमप्) । सर्वे इमे पटवः, अयमेषामतिशयेन । पटुः - पटिष्ठः । लघिष्ठः । गरिष्ठः (इष्ठन् ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org