________________
३००
न
पाणिनीय-अष्टाध्यायी-प्रवचनम् पुरादय आदेशा:
(१४) अस्ताति च।४०। प०वि०-अस्ताति ७१ च अव्ययपदम्।
अनु०-दिक्शब्देभ्यः, सप्तमीपञ्चमीप्रथमाभ्यः, दिग्देशकालेषु, पूर्वाधरावराणाम्, पुराधव: इति चानुवर्तते।
अन्वय:-दिग्देशकालेषु सप्तमीपञ्चमीप्रथमाभ्यो दिक्शब्देभ्य: पूर्वाधरावरेभ्योऽस्ताति च पुरधवः ।
अर्थ:-दिग्देशकालेष्वर्थेषु वर्तमानेभ्य: सप्तमीपञ्चमीप्रथमान्तेभ्योऽस्तातिप्रत्यये परतो यथासंख्यं पुरधव आदेशा भवन्ति । उदाहरणम्
दिक्-(पूर्व:) पूर्वस्यां दिशि वसति-पुरस्ताद् वसति (सप्तमी)। पूर्वस्या दिश आगत:-पुरस्ताद् आगत: (पञ्चमी)। पूर्वा दिग् रमणीयापुरस्ताद् रमणीया (प्रथमा)। (अधर:) अधरस्यां दिशि वसति-अधस्ताद् वसति (सप्तमी)। अधरस्या दिश आगत:-अधस्ताद् आगत: (पञ्चमी)। अधरा दिग् रमणीया-अधस्ताद् रमणीया (प्रथमा)। (अवरः) अवरस्यां दिशि वसति-अवस्ताद् वसति (सप्तमी)। अवरस्या दिश आगत:-अवस्ताद् आगत: (पञ्चमी)। अवरा दिग् रमणीया-अवस्ताद् रमणीया (प्रथमा)।
इत्थम्-देशे काले चार्थे पश्चावद् उदाहार्यम्।
आर्यभाषा: अर्थ-(दिग्देशकालेषु) दिक्, देश, काल अर्थों में विद्यमान, (सप्तमीपञ्चमीप्रथमाभ्यः) सप्तमी-पञ्चमी-प्रथमान्त (दिकशब्देभ्य:) दिशावाची (पूर्वाधरावराणाम्) पूर्व, अधर, अवर प्रातिपदिकों से (अस्ताति) अस्तात् प्रत्यय परे होने पर (च) भी (पुरधव:) यथासंख्य पुर, अध्, अव् आदेश होते हैं। उदाहरण
दिक्-(पूर्व) पूर्व दिशा में रहता है-पुरस्तात् रहता है (सप्तमी)। पूर्वदिशा से आया-पुरस्तात् आया (पञ्चमी)। पूर्व दिशा रमणीया-पुरस्तात् रमणीया (प्रथमा)। (अधर) अधर दिशा में रहता है-अधस्तात् रहता है (सप्तमी)। अधर दिशा से आया-अधस्तात् आया (पञ्चमी)। अधर दिशा रमणीया-अधस्तात् रमणीया (प्रथमा)। (अवर) अवर दिशा में रहता है-अवस्तात् रहता है (सप्तमी)। अवर दिशा से आया-अवस्तात् आया (पञ्चमी)। अवर दिशा रमणीया-अवस्तात् रमणीया (प्रथमा)।
इसी प्रकार देश और काल अर्थ में पश्चात्' शब्द के सहाय से शेष उदाहरणों की ऊहा कर लेवें।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org