________________
२८७
पञ्चमाध्यायस्य तृतीय पादः
२८७ अस्ताति-लुक्
(४) अञ्चेर्लुक् ।३०। प०वि०-अञ्चे: ५ ।१ लुक् ११ ।
अनु०-दिक्शब्देभ्यः, सप्तमीपञ्चमीप्रथमाभ्यः, दिग्देशकालेषु, अस्तातिरिति चानुवर्तते।
अन्वय:-दिग्देशकालेषु सप्तमीपञ्चमीप्रथमाभ्यो दिक्शब्देभ्योऽञ्चतिअन्तेभ्योऽस्ताते क्।
___ अर्थ:-दिग्देशकालेष्वर्थेषु वर्तमानेभ्य: सप्तमीपञ्चमीप्रथमान्तेभ्यो दिक्शब्देभ्योऽञ्चति-अन्तेभ्य: प्रातिपदिकेभ्य उत्तरस्यास्तातिप्रत्ययस्य लुग् भवति। उदाहरणम्
(१) दिक्-प्राच्यां दिशि वसति-प्राग् वसति (सप्तमी)। प्राच्या दिश आगत:-प्राग् आगत: (पञ्चमी) । प्राची दिग् रमणीया-प्राग् रमणीया (प्रथमा)।
(२) देश:-प्राचि देशे वसति-प्राग् वसति (सप्तमी)। प्राचो देशादागत:-प्राग् आगत: (पञ्चमी)। प्राग् देशो रमणीय:-प्राग् रमणीय: (प्रथमा)।
(३) काल:-प्राचि काले वसति-प्राग् वसति (सप्तमी)। प्राच: कालादागत:-प्राग् आगत: (पञ्चमी)। प्राक् कालो रमणीय:-प्राग् रमणीय: (प्रथमा)।
इत्थमेव-प्रत्यग् वसति। प्रत्यग् आगतः । प्रत्यग् रमणीयः ।
आर्यभाषा: अर्थ-(दिग्देशकालेषु) दिशा, देश, काल अर्थों में विद्यमान (सप्तमीपञ्चमीप्रथमाभ्यः) सप्तमी-पञ्चमी-प्रथमान्त (दिक्शब्देभ्यः) दिशावाची (अञ्चे:) अञ्चि-अन्त प्रातिपदिकों से उत्तर (अस्ताति:) अस्ताति प्रत्यय का (लुक्) लोप होता है। उदाहरण
(१) दिक्-प्राची दिशा में रहता है-प्राक् रहता है (सप्तमी)। प्राची दिशा से आया-प्राक् आया (पञ्चमी)। प्राची दिशा रमणीया-प्राक् रमणीया (प्रथमा)।
(२) देश-प्राक् देश में रहता है-प्राक् रहता है (सप्तमी)। प्राक् देश से आया-प्राक् आया (पञ्चमी)। प्राक् देश रमणीय-प्राक् रमणीय (प्रथमा)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org