SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी- प्रवचनम् (३) काल- प्राक् काल में रहता है- प्राक् रहता है (सप्तमी ) । प्राक् काल से आया- प्राक् आया (पञ्चमी)। प्राक् काल रमणीय- प्राक् रमणीय (प्रथमा) । ऐसे ही - प्रत्यक् रहता है। प्रत्यक् आया। प्रत्यक् रमणीय । प्रत्यक्= पश्चिम । सिद्धि प्राक् । प्राची+ङि+ङसि+सु+अस्ताति । प्राच् +० । प्राक् । यहां दिक, देश, काल अर्थ में विद्यमान, सप्तमी - पञ्चमी - प्रथमान्त, दिशावाची 'प्राची' शब्द से 'दिक्शब्देभ्य: ०' (५।३।२७) से 'अस्ताति' प्रत्यय करने पर इस सूत्र से उसका 'लुक्' हो जाता है । 'लुक् तद्धितलुकि' (१।२।४९) से तद्धित - प्रत्यय के लुक् हो जाने पर स्त्री-प्रत्यय ( ङीप्) का भी लुक् हो जाता है। ऐसे ही प्रत्यक् आदि । निपातनम् २८८ (५) उपर्युपरिष्टात् । ३१ । प०वि०-उपरि अव्ययपदम्, उपरिष्टात् अव्ययपदम् । अनु०-दिक्शब्देभ्यः, सप्तमीपञ्चमीप्रथमाभ्यः, दिग्देशकालेषु इति चानुवर्तते । अन्वयः - दिग्देशकालेषु सप्तमीपञ्चमीप्रथमान्ताद् दिक्शब्दात् ऊर्ध्वाद् रिल् - रिष्टातिलौ, उपश्च । अर्थः- उपरि, उपरिष्टाद् इत्येतौ शब्दौ निपात्यते । दिग्देशकालेष्वर्थेषु वर्तमानात् सप्तमीपञ्चमीप्रथमान्ताद् दिग्वाचिन ऊर्ध्वशब्दात् प्रातिपदिकात् स्वार्थे रिल- रिष्टातिलो प्रत्ययौ, ऊर्ध्वस्य स्थाने च उप आदेशो निपात्यते, इत्यर्थः । उदाहरणम् (१) दिक्- ऊर्ध्वायां दिशि वसति - उपरि वसति । उपरिष्टाद् वसति ( सप्तमी ) । ऊर्ध्वाया दिश आगतः उपरि आगतः । उपरिष्टाद् आगत: (पञ्चमी) । ऊर्ध्वा दिग् रमणीया - उपरि रमणीया । उपरिष्टाद् रमणीया (प्रथमा) । (२) देश: - ऊर्ध्वे देशे वसति - उपरि वसति । उपरिष्टाद् वसति । (सप्तमी ) । ऊर्ध्वाद् देशाद् आगतः उपरि आगतः । उपरिष्टाद् आगत: (पञ्चमी) । ऊर्ध्वा दिग् रमणीया - उपरि रमणीया। उपरिष्टाद् रमणीया । (प्रथमा) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy