________________
२३६
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-तद् ज्योत्स्ना०मलीमसा अस्य, अस्मिन्निति च संज्ञायाम्, अस्ति ।
अर्थ:-तद् प्रथमासमर्था ज्योत्स्नादय: शब्दा अस्येति षष्ठ्यर्थे, अस्मिन्निति च सप्तम्यर्थे निपात्यन्ते, संज्ञायां विषये, यत् प्रथमासमर्थमस्ति चेत् तद् भवति।
उदा०-(ज्योत्स्ना) ज्योत्स्ना=चन्द्रप्रभा। अत्र ज्योतिष्-शब्दस्योपधालोपो न: प्रत्ययश्च निपात्यते। (तमिस्रा) तमिस्रा-रात्रिः । अत्र तमस्-शब्दस्योपधायां इकारादेशो र: प्रत्ययश्च निपात्यते । स्त्रीलिङ्गमप्रधानम्, अन्यत्रापि प्रयोगदर्शनात्-तमिस्र नभः । (शृगिण:) शृङ्गिण: शृङ्गिण: पशुः । अत्र शृङ्ग-शब्दाद् इनच् प्रत्ययो निपात्यते। (ऊर्जस्विन्) ऊर्जस्वी पुरुषः । अत्र ऊर्ज-शब्दाद् विनि: प्रत्ययोऽसुगागमश्च निपात्यते। (ऊर्जस्वल:) ऊर्जस्वल: पुरुषः । अत्र ऊर्ज-शब्दाद् वलच् प्रत्ययोऽसुगागमश्च निपात्यते। (गोमिन्) गोमी पुरुषः । अत्र गोशब्दाद् मिनि: प्रत्ययो निपात्यते। (मलिन:) मलिन: पुरुषः । अत्र मल-शब्दाद् इनच् प्रत्ययो निपात्यते । (मलीमस:) मलीमस: पुरुष: । अत्र मल-शब्दाद् ईमसच् प्रत्ययो निपात्यते।
आर्यभाषाअर्थ-(तत्) प्रथमा-समर्थ (ज्योत्स्ना०मलीमसा:) ज्योत्स्ना, तमिस्रा, शृङ्गिण, ऊर्जस्विन्, ऊर्जस्वल, गोमिन्, मलिन, मलीमस शब्द (अस्य) षष्ठी-विभक्ति और (अस्मिन्निति) सप्तमी-विभक्ति के अर्थ में निपातित हैं (अस्ति) जो प्रथमा-समर्थ है यदि वह 'अस्ति' हो।
उदा०-(ज्योत्स्ना) ज्योति इसकी है वा इसमें है यह-ज्योत्स्ना चन्द्रप्रभा (चांदनी)। (तमिस्रा) तमस् अन्धकार इसका है वा इसमें है यह-तमिस्रा रात्रि (रात)। तमिस्रा' पद में स्त्रीलिङ्ग गौण है, अन्यत्र भी इसका प्रयोग देखा जाता है-तमिस्र नभः । अन्धकारवाला आकाश । (शृङ्गिण) शृङ्ग=सींग इसके है वा इसमें है यह-शृङ्गिण पशु। (ऊर्जस्विन्) ऊर्जबल इसका है वा इसमें है यह-ऊर्जस्वी पुरुष। (ऊर्जस्वल) ऊर्जस्-बल इसका है वा इसमें है यह-ऊर्जस्वल पुरुष। (गोमिन्) गौ इसकी है वा इसमें है यह-गोमी पुरुष गौ का सेवक। (मलिन) मल-मैल इसका है वा इसमें है यह-मलिन पुरुष। (मलीमस) मल-मैल इसका है वा इसमें है यह-मलीमस पुरुष।
____ सिद्धि-(१) ज्योत्स्ना । ज्योतिष्+सु+न । ज्योत्स्+न। ज्योत्स्न+टाम् । ज्योत्स्ना+सु। ज्योत्स्ना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org