________________
२३४
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अन्वयः-तद् रजःकृष्यासुतिपरिषदोऽस्य, अस्मिन्निति च वलच्
अस्ति ।
अर्थ::- तद् इति प्रथमासमर्थेभ्यो रजः कृष्यासुतिपरिषद्भ्यः प्रातिपदिकेभ्योऽस्येति षष्ठ्यर्थे, अस्मिन्निति च सप्तम्यर्थे वलच् प्रत्ययो भवति, यत् प्रथमासमर्थमस्ति चेत् तद् भवति ।
उदा०-(रजः) रजोऽस्या:, अस्यां वाऽस्ति - रजस्वला स्त्री । ( कृषिः ) कृषिरस्य, अस्मिन् वाऽस्ति - कृषीवलः कुटुम्बी । (आसुति:) आसुतिरस्य, अस्मिन् वाऽस्ति-आसुतीवलः शौण्डिकः । ( परिषद्) परिषदस्य, अस्मिन् वाऽस्ति-परिषद्वलो राजा ।
आर्यभाषाः अर्थ- (तत्) प्रथमा-समर्थ (रजः कृष्यासुतिपरिषदः) रजस्, कृषि, आसुति, परिषद् प्रातिपदिकों से (अस्य) षष्ठी विभक्ति और ( अस्मिन्निति ) सप्तमीविभक्ति के अर्थ में (वलच् ) वलच् प्रत्यय होता है (अस्ति ) जो प्रथमा-समर्थ है यदि वह 'अस्ति' हो ।
उदा०- - ( रजः ) रजस्= मासिक रक्तस्राव इसका है वा इसमें है यह - रजस्वला स्त्री । (कृषि) कृषि = खेती इसकी है वा इसमें है यह कृषीवल कुटुम्बी (किसान) । (आसुति) आसुति = निःसरण इसका है वा इसमें है यह आसुतीवल शौण्डिक (शराब बेचनेवाला) । (परिषद्) परिषद् = न्यायसभा है इसकी वा इसमें है यह परिषद्वल राजा । सिद्धि - ( १ ) रजस्वला । रजस्+सु+वलच् । रजस्+वल । रजस्वल+टाप् । रजस्वला+सु । रजस्वला ।
यहां प्रथमा-समर्थ 'रजस्' शब्द से अस्य (षष्ठी) और अस्मिन् (सप्तमी) अर्थ में इस सूत्र से 'वलच्' प्रत्यय है। ऐसे ही परिषद्वलः ।
(२) कृषीवलः | यहां 'कृषि' शब्द से पूर्ववत् 'वलच्' प्रत्यय है। 'वलें' (६ | ३ | ११८) से अंग को दीर्घ होता है । ऐसे ही - आसुतीवलः ।
वलच्
(२०) दन्तशिखात् संज्ञायाम् | ११३ |
प०वि० - दन्त - शिखात् ५ ।१ संज्ञायाम् ७ । १ ।
सo - दन्तश्च शिखा च एतयोः समाहारो दन्तशिखम्, तस्मात्दन्तशिखात् (समाहारद्वन्द्वः) ।
अनु०-तत्, अस्य, अस्ति, अस्मिन् इति, वलच् इति चानुवर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org