________________
२१६
पञ्चमाध्यायस्य द्वितीय पादः
२१६ लच-विकल्पः
(४) सिध्मादिभ्यश्च ।६७। प०वि०-सिध्म-आदिभ्य: ५।३ च अव्ययपदम्। स०-सिध्म आदिर्येषां ते सिध्मादय:, तेभ्य:-सिध्मादिभ्यः (बहुव्रीहि:)।
अनु०-तत्, अस्य, अस्ति, अस्मिन् इति लच्, अन्यतरस्याम् इति चानुवर्तते।
अन्वय:-तत् सिध्मादिभ्यश्चाऽस्य, अस्मिन् इति अन्यतरस्यां लच्, अस्ति ।
अर्थ:-तद् इति प्रथमासमर्थेभ्य: सिध्मादिभ्य: प्रातिपदिकाभ्यश्चास्येति षष्ठ्यर्थे, अस्मिन्निति च सप्तम्यर्थे विकल्पेन लच् प्रत्ययो भवति, यत् प्रथमासमर्थमस्ति चेत् तद् भवति, पक्षे च मतुप् प्रत्ययो भवति।
उदा०-सिध्ममस्य, अस्मिन् वाऽस्ति-सिध्मल: (लच्) । सिध्मवान् (मतुप्)। गडु अस्य, अस्मिन् वाऽस्ति-गडुल: (लच्) । गडुमान् (मतुप्) इत्यादिकम्।
सिध्म। गडु। मणि। नाभि । जीव । निष्पाव । पांसु । सक्तु । हनु। मांस । परशु। पार्णिधमन्योर्दीर्घश्च । पामल: । धमनील: । पर्ण। उदक। प्रज्ञा । मण्ड। पार्श्व । गण्ड । ग्रमि। वातदन्तबलललाटानामूङ् च । वातूलः । दन्तूल: । बलूल: । ललाटूल: । जटाघटाकला: क्षेपे। जटाल: । घटाल: । कलाल: । सक्थि । कर्ण। स्नेह । शीत। श्याम। पिङ्ग। पित्त । शुष्क । पृथु । मृदु । मञ्जु । पत्र । चटु । कपि। कण्डु। संज्ञा । क्षुद्रजन्तूपतापाच्चेष्यते। क्षुद्रजन्तु-यूकाल: । मक्षिकाल: । उपताप-विचर्चिकालः। विपादिकाल: । मूर्छाल: । इति सिध्मादयः ।।
आर्यभाषा: अर्थ-(तत्) प्रथमा-समर्थ (सिध्मादिभ्यः) सिध्म आदि प्रातिपदिकों से (च) भी (अस्य) षष्ठी-विभक्ति और (अस्मिन्) सप्तमी-विभक्ति के अर्थ में (अन्यतरस्याम्) विकल्प से (लच्) लच् प्रत्यय होता है (अस्ति) जो प्रथमा-समर्थ है यदि वह अस्ति हो और पक्ष में मतुप् प्रत्यय होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org