________________
२१८
पाणिनीय-अष्टाध्यायी-प्रवचनम् लच्-विकल्पः
(३) प्राणिस्थादातो लजन्यतरस्याम्।६६।
प०वि०-प्राणिस्थात् ५।१ आत: ५।१ लच् ११ अन्यतरस्याम् अव्ययपदम्।
स०-प्राणिनि तिष्ठतीति प्राणिस्थः, तस्मात्-प्राणिस्थात् (उपपदतत्पुरुषः)।
अनु०-तत्, अस्य, अस्ति, अस्मिन् इति चानुवर्तते।
अन्वय:-तत् प्राणिस्थाद् आतोऽस्य, अस्मिन् इति अन्यतरस्यां लच्, अस्ति ।
अर्थ:-तद् इति प्रथमासमर्थाद् आकरान्तात् प्रातिपदिकाद् अस्येति षष्ठ्यर्थे, अस्मिन्निति च सप्तम्यर्थे विकल्पेन लच् प्रत्ययो भवति, यत् प्रथमासमर्थमस्ति चेत् तद् भवति । पक्षे च मतुप् प्रत्ययो भवति।
उदा०-चूडाऽस्य, अस्मिन् वाऽस्ति-चूडाल: (लच्)। चूडावान् (मतुप्) । कर्णिकाऽस्य, अस्मिन् वाऽस्ति-कर्णिकाल: (लच्) । कर्णिकावान् (मतुप्)।
आर्यभाषा: अर्थ-(तत्) प्रथमा-समर्थ (प्राणिस्थात्) प्राणी में अवस्थित (आत:) आकारान्त प्रातिपदिक से (अस्य) षष्ठी-विभक्ति और (अस्मिन्) सप्तमी-विभक्ति के अर्थ में (अन्यतरस्याम्) विकल्प से (लच्) लच् प्रत्यय होता है (अस्ति) जो प्रथमा-समर्थ है यदि वह अस्ति हो और पक्ष में मतुप् प्रत्यय होता है।
उदा०-चूडा-शिखा इसकी है वा इसमें है यह-चूडाल (लच्)। चूडावान् (मतुप्) मोर। कर्णिका इसकी है वा इसमें है वह-कर्णिकाल (लच्) । कर्णिकावान् (मतुप्)। हाथी। कर्णिका हाथी के सूंड की नोक । यहां कर्णिका' शब्द कर्ण-आभूषण का वाची नहीं, अपितु प्राणी-अंग का वाचक है।
सिद्धि-(१) चूडालः । चूड+सु+लच् । चूडा+ल। चूडाल+सु। चूडालः ।
यहां प्रथमा-समर्थ 'चूडा' शब्द से अस्य (षष्ठी) और अस्मिन् (सप्तमी) अर्थ में इस सूत्र से लच्' प्रत्यय है। ऐसे ही-कर्णिकाल: ।
(२) चूडावान् और कर्णिकावान् पदों की सिद्धि वृक्षवान्' (५।२।९४) के समान है। यहां विकल्प-पक्ष में मतुप' प्रत्यय है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org