________________
पञ्चमाध्यायस्य द्वितीय पादः
अर्थ:-तत्र इति सप्तमीसमर्थेभ्य: स्वाङ्गवाचिभ्यः प्रातिपदिकेभ्यः प्रसितेऽर्थे कन् प्रत्ययो भवति । प्रसितः = प्रसक्तः, तत्पर इत्यर्थः । उदा०-केशेषु प्रसित:-केशकः । केशरचनायां प्रसक्त इत्यर्थः । दन्तौष्ठकः । केशनखकः ।
आर्यभाषा: अर्थ - (तत्र) सप्तमी समर्थ (स्वाङ्गेभ्यः) स्वाङ्गवाची प्रातिपदिकों से (प्रसितः) प्रसक्त=फंसा हुआ अर्थ में (कन्) कन् प्रत्यय होता है।
१६३
उदा०-केशो में प्रसित=फंसा हुआ - केशक। केश-शृङ्गार में फंसा हुआ पुरुष । दन्त और ओष्ठ के शृङ्गार में फंसा हुआ-द - दन्तौष्ठक । केश नख के शृङ्गार में फंसा हुआ- केशनखक ।
सिद्धि-केशकः । केश+सुप्+कन् । केश+क। केशक+सु । केशकः । यहां सप्तमी समर्थ, स्वाङ्गवाची 'केश' शब्द से प्रसित अर्थ में इस सूत्र से 'कन्' प्रत्यय है । ऐसे ही - दन्तौष्ठकः, केशनखक: ।
ठक्
(२) उदराट्ठगाद्यूने । ६७ । प०वि०-उदरात् ५ ।१ ठक् १ ।१ आद्यूने ७ । १ ।
कृद्वृत्ति:-'आद्यून:' इत्यत्र 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु' (दि०प०) इत्यस्माद् धातोः क्तः प्रत्यय:, 'दिवोऽविजिगीषायाम्' (८।२।४९) इति च निष्ठातकारस्य नत्वं भवति । आद्यूनः = अविजिगीषुरित्यर्थः ।
अनु०-तत्र, प्रसिते इति चानुवर्तते ।
अन्वयः-तत्र उदरात् प्रसिते ठक्, आद्यूने ।
अर्थः- तत्र इति सप्तमीसमर्थाद् उदर-शब्दात् प्रातिपदिकात् प्रसितेऽर्थे ठक् प्रत्ययो भवति, यत् प्रसितम् आद्यूनं चेत् तद् भवति ।
उदा०-उदरे प्रसित:-औदरिक आद्यूनः । यो बुभुक्षयाऽत्यन्तं पीड्यते स औदरिक आद्यून इति कथ्यते ।
आर्यभाषाः अर्थ - (तत्र) सप्तमी - समर्थ (उदरात्) उदर प्रातिपदिक से (प्रसिते) खाने में फंसा हुआ अर्थ में (ठक् ) प्रत्यय होता है (आद्यूने) जो प्रसित अर्थ यदि वह आद्यून=अविजिगीषा हो, पूर्ण न हो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org