________________
२६२
पाणिनीय-अष्टाध्यायी-प्रवचनम्
कामार्थप्रत्ययविधिः कन्
(१) धनहिरण्यात् कामे।६५ । प०वि०-धन-हिरण्यात् ५।१ कामे ७।१।
स०-धनं च हिरण्यं च एतयो: समाहारो धनहिरण्यम्, तस्मात्धनहिरण्यात् (समाहारद्वन्द्वः)।
अनु०-तत्र, कन् इति चानुवर्तते । अन्वय:-तत्र धनहिरण्याभ्यां कामे कन्।
अर्थ:-तत्र इति सप्तमीसमर्थाभ्यां धनहिरण्याभ्यां प्रातिपदिकाभ्यां कामेऽर्थे कन् प्रत्ययो भवति। काम:-इच्छा, अभिलाष इत्यर्थः ।
उदा०-(धनम्) धने काम:-धनक: । धनको देवदत्तस्य । (हिरण्यम्) हिरण्ये काम:-हिरण्यकः । हिरण्यको यज्ञदत्तस्य ।
आर्यभाषा: अर्थ- (तत्र) सप्तमी-समर्थ (धनहिरण्यात्) धन, हिरण्य प्रातिपदिकों से (कामे) इच्छा अर्थ में (कन्) कन् प्रत्यय होता है।
उदा०-(धन) धन में इच्छा-धनक। देवदत्त को धनक धिन में इच्छा) है। (हिरण्य) हिरण्य में इच्छा-हिरण्यक। यज्ञदत्त को हिरण्यक (सुवर्ण में इच्छा) है।
सिद्धि-धनकः । धन+डि+कन् । धन+क। धनक+सु । धनकः ।
यहां सप्तमी-समर्थ 'धन' शब्द से काम (इच्छा) अर्थ में इस सूत्र से कन्' प्रत्यय है। ऐसे ही-हिरण्यकः।
प्रसितार्थप्रत्ययविधिः कन्
(१) स्वाङ्गेभ्यः प्रसिते।६६। प०वि०-स्वाङ्गेभ्य: ५।३ प्रसिते ७।१ ‘स्वाङ्गेभ्यः' इति बहुवचननिर्देशात् स्वाङ्गवाचिन: शब्दा गृह्यन्ते।
अनु०-तत्र, कन् इति चानुवर्तते । अन्वय:-तत्र, स्वाङ्गेभ्य: प्रसिते कन्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org