________________
१६५
पञ्चमाध्यायस्य द्वितीय पादः यहां सप्तमी-समर्थ कर्मन्’ शब्द से घट (प्रयत्न करनेवाला) अर्थ में इस सूत्र से 'अठच्' प्रत्यय है। नस्तद्धिते (६।४।१४४) से अंग के टि-भाग (अन्) का लोप होता है। 'अठच्' प्रत्यय के आदि में अकार-उच्चारण से ठस्येकः' (७।३ १५०) से प्राप्त ह' के स्थान में 'इक्’ आदेश नहीं होता है। 'घट चेष्टायाम्' (भ्वा०आ०) धातु के अकर्मक होने से कर्म' शब्द से कर्तुरीप्सिततमं कर्म' (१।४।४९) से विहित पारिभाषिक कर्म' का ग्रहण नहीं किया जाता है।
अस्य (षष्ठी) अर्थप्रत्ययप्रकरणम् इतच्
(१) तदस्य सञ्जातं तारकादिभ्य इतच् ।३६ ।
प०वि०-तत् १।१ अस्य ६१ सञ्जातम् १।१ तारकादिभ्य: ५।३ इतच् १।१।
स०-तारका आदिर्येषां ते तारकादयः, तेभ्य:-तारकादिभ्य: (बहुव्रीहिः)।
अन्वय:-तत् तारकादिभ्योऽस्य इतच्, सञ्जातम्।
अर्थ:-तद् इति प्रथमासमर्थेभ्यस्तारकादिभ्य: प्रातिपदिकेभ्योऽस्येति षष्ठ्यर्थे इतच् प्रत्ययो भवति, यत् प्रथमासमर्थं सञ्जातं चेत् तद् भवति ।
उदा०-तारकाः सञ्जाता अस्य-तारकितं नभः। पुष्पाणि सञ्जातान्यस्य-पुष्पितो वृक्षः, इत्यादिकम् ।
तारका । पुष्प। मुकुल । कण्टक। पिपासा । सुख । दु:ख । ऋजीष । कुड्मल । सूचक । रोग । विचार । तन्द्रा । वेग । पुक्षा । श्रद्धा । उत्कण्ठा । भर । द्रोह। गर्भादप्राणिनि । फल। उच्चार । स्तवक । पल्लव। खण्ड । धेनुष्या । अभ्र । अङ्गारक । अङ्गार । वर्णक । पुलक । कुवलय । शैवल । गर्व। तरङ्ग । कल्लोल। पण्डा। चन्द। स्रवक। मुदा। राग। हस्त। कर। सीमन्त । कर्दम । कज्जल । कलङ्क । कुतूहल ! कन्दल । आन्दोल। अन्धकार। कोरक । अङ्कुर। रोमाञ्च। हर्ष। उत्कर्ष । क्षुधा। ज्वर । गोर। दोह। शास्त्र । मुकुर । तिलक । बुभुक्षा । निद्रा । इति तारकादयः । आकृतिगणोऽयम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org