________________
पाणिनीय-अष्टाध्यायी प्रवचनम्
सo-पदस्य अनु इति अनुपदम् । 'यस्य चायाम:' ( २ ।१ । १६ ) इति अव्ययीभावसमासः। सर्वं च तद् अन्नम् इति सर्वान्नम् । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ( २ । १ । ४९) इति कर्मधारयसमासः। अयश्चासावनयश्च इति अयानयः ( कर्मधारयः ) । अनुपदं च सर्वान्नं च अयानयं च एतेषां समाहार : - अनुपदसर्वान्नायानयम्, तत्-अनुपदसर्वान्नायानयम् (समाहारद्वन्द्वः) । बद्धा च भक्षयतिश्च नेयश्च ते बद्धाभक्षयतिनेया:, तेषु - बद्धाभक्षयतिनेयेषु (इतरेतरयोगद्वन्द्वः) । अनु०-तत्, ख इति चानुवर्तते ।
अन्वयः-तद् अनुपदसर्वान्नायानयेभ्यो बद्धाभक्षयतिनेयेषु खः । अर्थ:- तद् इति द्वितीयासमर्थेभ्योऽनुपदसर्वान्नायानयेभ्यः प्रातिपदिकेभ्यो यथासंख्यं बद्धाभक्षयतिनेयेष्वर्थेषु खः प्रत्ययो भवति ।
१४२
उदा०- ( अनुपदम् ) अनुपदं बद्धा - अनुपदीना उपानत्। पदप्रमाणेत्यर्थः । (सर्वान्नम् ) सर्वान्नानि भक्षयति - सर्वान्नीनः साधुः । (अयानयः) अयानयं नेयः - अयानयीन: शारः । फलकशिरसि स्थित इत्यर्थः । अय: = प्रदक्षिणम्, अनयः = प्रसव्यम् । प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मिन् परशारै: पदानामसमावेशः सोऽयानय इति कथ्यते ।
आर्यभाषाः अर्थ- (तत्) द्वितीया - समर्थ (अनुपदसर्वान्नायानयम् ) अनुपद, सर्वान्न, अयानय प्रातिपदिकों से (बद्धाभक्षयतिनेयेषु) यथासंख्य बद्धा, भक्षयति, नेय अर्थों में (ख) ख प्रत्यय होता है।
उदा०- - ( अनुपद) अनुपद=पांव के प्रमाण (पुंवाणा) से बनाई गई - अनुपदीना उपानत् ( जूती) । (सर्वान्न ) सब अन्नों को खानेवाला - सर्वान्नीन साधु । (अयानय)
अय = दाहिनी ओर तथा अनय-बाई ओर से चलनेवाले चौपड़ के शारों की जिस चाल में प्रतियोगी की शारों द्वारा पदों में समावेश न होना 'अयानय' कहाता है। अयानय को नेय=ले जाने योग्य-अयानयीन शार (शतरंज का मोहरा ) ।
सिद्धि - अनुपदीना । अनुपद+अम्+ख। अनुपद्+ईन। अनुपदीन+टाप् । अनुपदीना+सु । अनुपदीना ।
यहां द्वितीया-समर्थ 'अनुपद' शब्द से 'बद्धा' अर्थ में इस सूत्र से 'ख' प्रत्यय है । पूर्ववत् 'ख' के स्थान में 'ईन्' आदेश और अंग के अकार का लोप होता है। स्त्रीत्व-विवक्षा में 'अजाद्यष्टाप' (४/१/४ ) से 'टाप्' प्रत्यय है। ऐसे ही सर्वान्नीनः अयानयीनः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org