________________
१२४
पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) राज्यम् । यहां षष्ठी-समर्थ राजन्' शब्द से भाव और कर्म अर्थ में इस सूत्र से यक्’ प्रत्यय है। नस्तद्धिते' (६।४।१४४) से अंग के टि-भाग (अन्) का लोप और किति च' (७।२।११८) से पर्जन्यवत् अंग को आदिवृद्धि होती है। अञ्(५) प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ।१२८ ।
प०वि०-प्राणभृज्जाति-वयोवचन-उद्गात्रादिभ्य: ५।३ अञ् १।१।
स०-प्राणं बिभ्रतीति प्राणभृत:=प्राणिनः। प्राणभृतां जातिरिति प्राणभृज्जाति: । वय उक्तवन्त इति वयोवचना: । उद्गाता आदिर्येषां ते उद्गात्रादय: । प्राणभृज्जातिश्च वयोवचनाश्च उद्गात्रादयश्च ते प्राणभृज्जाति वयोवचनोद्गात्रादयः, तेभ्य:-प्राणभृज्जातिवयोवचनोद्गात्रादिभ्यः (षष्ठीतत्पुरुषबहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः) ।
अनु०-तस्य, भाव:, कर्मणि, च इति चानुवर्तते। अन्वय:-तस्य प्राणभृज्जातिवयोवचनोद्गात्रादिभ्यो भावे कर्मणि चाऽञ् ।
अर्थ:-तस्य इति षष्ठीसमर्थेभ्य: प्राणभृज्जातिवाचिभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्च प्रातिपदिकेभ्यो भावे कर्मणि चार्थेऽञ् प्रत्ययो भवति, त्वतलौ तु भवति एव।
उदा०-(प्राणभृज्जाति:) अश्वस्य भाव: कर्म वा-आश्वम् (अञ्) । अश्वत्वम् (त्व:)। अश्वता (तल्)। उष्ट्रस्य भावः कर्म वा-औष्ट्रम् (अञ्)। उष्ट्रत्वम् (त्व:)। उष्ट्रता (तल्)। (वयोवचन:) कुमारस्य भाव: कर्म वा-कौमारम् (अञ्) । कुमारत्वम् (त्व:)। कुमारता (तल्) । किशोरस्य भाव: कर्म वा-कैशोरम् (अञ्) । किशोरत्वम् (त्व:)। किशोरता (तल्)। (उद्गात्रादि:) उद्गातुर्भाव: कर्म वा-औद्गात्रम् (अञ्) । उद्गातृत्वम् (त्व:)। उद्गातृता (तल्) । उन्नेतुभाव: कर्म वा-औन्नेत्रम् (अञ्) । उन्नेतृत्वम् (त्व:)। उन्नेतृता (तल्) इत्यादिकम्।
उद्गातृ। उन्नेतृ । प्रतिहर्तृ। रथगणक । पक्षिगणक । सुष्ठु । दुष्ठु। अध्वर्यु । वधू । सुभग मन्त्रे। इति उद्गात्रादयः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org