________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
११६
इमनिच् प्रत्यय होता है। अतः इस त्व-तल् प्रत्ययों के अधिकार से वहां विकल्प पक्ष में त्व और तल् प्रत्यय भी होते हैं। जैसे- प्रथिमा । पार्थवम् । पृथुत्वम् । पृथुता इत्यादि । सिद्धि-प्रथिमा आदि शब्दों की सिद्धि यथास्थान लिखी जायेगी ।
भावार्थप्रत्ययप्रतिषेधः
(३) न नञ्पूर्वात् तत्पुरुषादचतुरमङ्गललवणबुधकतरसलसेभ्यः । १२० ।
प०वि०-न अव्ययपदम्, नञपूर्वात् ५ ।१ तत्पुरुषात् ५ ।१ अचतुरमङ्गल - लवण-बुध-कत - रस - लसेभ्य: ५ । ३ ।
स०-नञ् पूर्वो यस्मिन् स नञ्पूर्व:, तस्मात् नञ्पूर्वात् ( बहुव्रीहि: ) । चतुरश्च मङ्गलं च लवणं च बुधश्च कतश्च रसश्च लसश्च ते चतुरमङ्गललवणबुधकतरसलसा, न चतुर०लसा इति अचतुर०लसा:, तेभ्य:-अचतुर०लसेभ्यः (इतरेतरयोगद्वन्द्वगर्भितनञ्तत्पुरुषः ) ।
अनु० - तस्य भाव इति चानुवर्तते ।
,
अन्वयः-तस्य चतुरादिवर्जिताद् नञ्पूर्वात् तत्पुरुषाद् भाव इत उत्तरे
प्रत्यया न ।
अर्थः-तस्य इति षष्ठीसमर्थाच्चतुरादिवर्जिताद् नञ्पूर्वात् तत्पुरुषसंज्ञकात् प्रातिपदिकाद् भाव इत्यस्मिन्नर्थे इत उत्तरे प्रत्यया न भवन्तीत्यधिकारोऽयम् । वक्ष्यति - 'पत्यन्तपुरोहिताभ्यो यक्' (५ । १ । १२७ ) इति अपतेर्भावः-अपतित्वम्, अपतिता । अपटुत्वम्, अपटुता । अरमणीयत्वम्, अरमणीयता ।
1
आर्यभाषाः अर्थ- (अचतुर०लसेभ्यः) चतुर, मङ्गल, लवण, बुध, कत, रस, लस प्रातिपदिकों को छोड़कर (नञ्पूर्वात् ) नञ्पूर्ववाले (तत्पुरुषात्) तत्पुरुष-संज्ञक प्रातिपदिक से (भावः) भाव अर्थ में (न) इससे आगे विधीयमान प्रत्यय नहीं होते हैं, यह अधिकार सूत्र है। जैसे पाणिनिमुनि कहेंगे- 'पत्यन्तपुरोहितादिभ्यो यक्' (५ 1१1१२७) अर्थात् पति-अन्तवाले तथा पुराहित आदि प्रातिपदिकों से यक् प्रत्यय होता है। वह इस नियम-सूत्र से नञ्- तत्पुरुष से नहीं होता है। जैसे- अपतित्व, अपतिता । अपटुत्व, अपटुता । अरमणीयत्व, अरमणीयता । यहां 'यक्' प्रत्यय का प्रतिषेध होने से 'तस्य भावस्त्वतलों (५1१1११८) से औत्सर्गिक त्व और तत् प्रत्यय होते हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org