________________
८४
पाणिनीय-अष्टाध्यायी-प्रवचनम् ख-विकल्प:
(३) रात्र्यहःसंवत्सराच्च ।८६ । प०वि०-रात्रि-अह:-संवत्सरात् ५।१ च अव्ययपदम्।
स०-रात्रिश्च अहश्च संरत्सरश्च एतेषां समाहारो रात्र्यह:संवत्सरम्, तस्मात्-रात्र्यह:संवत्सरात् (समाहारद्वन्द्व:)।
अनु०-कालात्, तेन, निवृत्तम्, तम्, अधीष्ट:, भृत:, भूत:, भावी, ख:, द्विगो:, वा इति चानुवर्तते।
अन्वय:-तेन, तम्, द्विगो: कालाद् रात्र्यह:संवत्सराच्च निवृत्तम् अधीष्टो भृतो भूतो भावी वा खः ।
अर्थ:-तेन इति तृतीयासमर्थेभ्य:, तम् इति च द्वितीयासमर्थेभ्यो द्विगुसंज्ञकेभ्य: कालविशेषवाचिभ्य: रात्र्यह:संवत्सरान्तेभ्य: प्रातिपदिकेभ्यो निवृत्तम् अधीष्टो भृतो भूतो भावी इत्येतेषु पञ्चस्वर्थेषु विकल्पेन ख: प्रत्ययो भवति, पक्षे च यथाविहितं ठञ् प्रत्ययो भवति।
उदा०-(१) रात्रि:-द्वाभ्यां रात्रिभ्यां निर्वृत्तम्-द्विरात्रीणं द्वारम् (ख:) । द्वैरात्रिकं द्वारम् (ठञ्) । द्वे रात्री अधीष्टो भृतो भूतो भावी वा-द्विरात्रीण: (ख:)। द्वैरात्रिक: (ठञ्)।
(२) अह:-द्वाभ्यामहा निवृत्तम्-व्यहीनं द्वारम् (ख:) । द्वैयह्निक द्वारम् (ठञ्) । द्वे अहनी अधीष्टो भृतो भूतो भावी वा-व्यहीन: (ख:) । द्वैयह्निकः।
(३) संवत्सर:-द्वाभ्यां संवत्सराभ्यां निर्वृत्तम्-द्विसंवत्सरीणं भवनम् (ख:)। द्विसांवत्सरिकं भवनम् (ठञ्) । द्वौ संवत्सरौ अधीष्टो भृतो भूतो भावी वा-द्विसंवत्सरीण: (ख:) द्विसांवत्सरिक: (ठञ्) ।
आर्यभाषा: अर्थ- (तेन) तृतीया-समर्थ तथा (तम्) द्वितीया-समर्थ (द्विगो:) द्विगुसंज्ञक (कालात्) कालविशेषवाची (रात्र्यह:संवत्सरात्) रात्र्यन्त, अहरन्त, संवत्सरान्त प्रातिपदिकों से (च) भी (वा) विकल्प से (ख:) ख प्रत्यय होता है और पक्ष में यथाविहित ठञ् प्रत्यय होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org