________________
५४६
अण्
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(३) वेशन्तहिमवद्भ्यामण् ॥ ११२ ॥
प०वि०-वेशन्त - हिमवद्भ्याम् ५ ।२ अण् १ । १ ।
स०-वेशन्तश्च हिमवाँश्च तौ वेशन्तहिमवन्तौ ताभ्याम्
वेशन्तहिमवद्भ्याम् (इतरेतरयोगद्वन्द्वः) ।
अनु० -तत्र भवे, छन्दसि इति चानुवर्तते ।
अन्वयः - छन्दसि तत्र वेशन्तहिमवद्भ्यां भवेऽण् ।
अर्थ :- छन्दसि विषये तत्र इति सप्तमीसमर्थाभ्यां वेशन्तहिमवद्भ्यां प्रातिपदिकाभ्यां भव इत्यस्मिन्नर्थेऽण् प्रत्ययो भवति ।
उदा०
. ( वशन्तः ) वेशन्ते भवा वैशन्त्य आप: । वैशन्तीभ्यः स्वाहा ( तै०सं० ७ । ४ । १३ । ९) । (हिमवान् ) हिमवति भवा हैमवत्य आपः । हैमवतीभ्यः स्वाहा (तु०शौ० सं० १९ । २ । १) ।
आर्यभाषा: अर्थ- (छन्दसि ) वेदविषय में (तत्र ) सप्तमी - समर्थ (विशवन्तहिमवद्भ्याम्) वेशन्त और हिमवान् प्रातिपदिकों से (भवे) होनेवाला अर्थ में (अण्) अण् प्रत्यय होता है।
उदा०- (विशन्त) पल्वल = तालाब में होनेवाले - वैशन्ती आप (जल) । वैशन्तीभ्यः स्वाहा । (हिमवान् ) हिमालय में होनेवाले - हैमवती आप (जल)। हिमवतीभ्य स्वाहा । सिद्धि-वैशन्ती। विशन्त+ङि+अण्। वैशन्त्+अ । वैशन्त + ङीप् । वैशन्ती+सु ।
वैशन्ती ।
यहां सप्तमी-समर्थ वैशन्त' शब्द से भव- अर्थ में इस सूत्र से 'अण्' प्रत्यय है। स्त्रीत्व - विवक्षा में 'टिड्ढाणञ्०' (४।१।१५) से ङीप् प्रत्यय होता है। ऐसे ही हैमवती । ड्यत्-ड्य-विकल्पः
(४) स्त्रोतसो विभाषा ड्यड्ड्यौ। ११३ । प०वि०-स्रोतस: ५।१ विभाषा १ । १ ड्यत् - ड्यौ १।२। स० - ड्यच्च ड्यश्च तौ ड्यड्ड्यौ (इतरेतरयोगद्वन्द्वः) । अनु० - तत्र भवे, छन्दसि इति चानुवर्तते । अन्वयः-छन्दसि तत्र स्रोतसो भवे विभाषा ड्यड्ड्यौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org