________________
५१२
पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-तत्, अस्मै, दीयते, नियुक्तम् इति चानुवर्तते । अन्वय:-तत् श्राणामांसौदनाभ्याम् अस्मै टिठन्, नियुक्तं दीयते।
अर्थ:-तद् इति प्रथमासमर्थाभ्यां श्राणामांसौदनाभ्यां प्रातिपदिकाभ्याम् अस्मै इति चतुर्थ्यर्थे टिठन् प्रत्ययो भवति, यत् प्रथमासमर्थं नियुक्तं दीयते चेत् तद् भवति।
उदा०-(श्राणा) श्राणाऽस्मै नियुक्तं दीयते-श्राणिकः । स्त्री चेत्-श्राणिकी। (मांसौदनम् ) मांसौदनमस्मै नियुक्तं दीयते-मांसौदनिकः ।
केचिद् विगृहीतादपि प्रत्ययमिच्छन्ति-मांसिक: । ओदनिकः ।
आर्यभाषा: अर्थ-(तत्) प्रथमा-समर्थ (श्राणामांसौदनाभ्याम्) श्राणा, मांसौदन प्रातिपदिकों से (अस्मै) इसके लिये अर्थ में (टिठन्) टिठन् प्रत्यय होता है (नियुक्तं दीयते) जो प्रथमा-समर्थ है यदि वह नियुक्त (अवश्य) दिया जाता है, हो।
उदा०-(श्राणा) श्राणा (भाजी) इसके लिये अवश्य दी जाती है यह-श्राणिक । यदि स्त्री हो तो-श्राणिकी। (मांसौदन) मांस और ओदन (भात) इसे अवश्य दिया जाता है यह-मांसौदनिक। यदि स्त्री हो तो-मांसौदनिकी।
कई वैयाकरण यहां विगृहीत से भी प्रत्यय चाहते हैं-मांस इसे अवश्य दिया जाता है यह-मासिक। ओदन इसे अवश्य दिया जाता है यह-ओदनिक।
सिद्धि-श्राणिकः । श्राणा+सु+टिठन् । श्राण+इक । श्राणिक+सु । श्राणिकः ।
यहां प्रथमा-समर्थ 'श्राणा' शब्द से अस्मै अर्थ में तथा 'नियुक्तं दीयते' अभिधेय में इस सूत्र से टिठन् प्रत्यय है। प्रत्यय में इकार उच्चारणार्थ है। प्रत्यय के 'टित्' होने से स्त्रीत्व-विवक्षा में टिड्ढाण' (४।१।१५) से डीप् प्रत्यय होता है-श्राणिकी। ऐसे ही-मांसौदनिकः, मांसौदनिकी आदि। अण्-विकल्प:
(३) भक्तादणन्यतरस्याम्।६८। प०वि०-भक्तात् ५।१ अण् १।१ अन्यतरस्याम् अव्ययपदम्। अनु०-तत्, अस्मै, दीयते, नियुक्तम् इति चानुवर्तते। अन्वयः-तद् भक्ताद् अस्मै अन्यतरस्याम् अण् नियुक्तं दीयते ।
अर्थ:-तद् इति प्रथमासमर्थाद् भक्त-शब्दात् प्रातिपदिकाद् अस्मै इति चतुर्थ्यर्थ विकल्पेनाऽण् प्रत्ययो भवति, पक्षे च ठक् प्रत्ययो भवति। यत् प्रथमासमर्थं नियुक्तं दीयते चेत् तद् भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org