________________
चतुर्थाध्यायस्य चतुर्थः पादः
अन्वयः-तत् शक्तियष्टिभ्याम् अस्य ईकक् प्रहरणम् ।
अर्थ:-तद् इति प्रथमासमर्थाभ्यां शक्तियष्टिभ्यां प्रातिपदिकाभ्याम् अस्येति षष्ठ्यर्थे ईकक् प्रत्ययो भवति, यत् प्रथमासमर्थं प्रहरणं चेत् तद् भवति ।
उदा०- ( शक्ति:) शक्तिः प्रहरणमस्य शाक्तीकः । (यष्टिः ) यष्टिः प्रहरणमस्य - याष्टीकः ।
आर्यभाषाः अर्थ - (तत्) प्रथमा-समर्थ (शक्तियष्ट्योः) शक्ति और यष्टि प्रातिपदिकों से (अस्य) इसका अर्थ में (ईकक् ) ईकक् प्रत्यय होता है (प्रहरणम्) जो प्रथमा-समर्थ है यदि वह प्रहरण=हथियार हो ।
५०५
उदा०- (शक्ति) शक्ति-भाला है प्रहरण इसका यह - शाक्तीक । (यष्टि) यष्टि = लाठी है प्रहरण इसका यह-याष्टीक ।
सिद्धि-शाक्तीकः । शक्ति+सु+ईकक् । शाक्त्+ईक । शाक्तीक+सु । शाक्तीकः । यहां प्रथमा-समर्थ, प्रहरणविशेषवाची 'शक्ति' शब्द से अस्य (इसका ) अर्थ में इस सूत्र से 'ईकक्' प्रत्यय है । 'किति च' (७/२ । ११८ ) से अंग को आदिवृद्धि और 'यस्येति च' (६ । ४ । १४८) से अंग के इकार का लोप होता है। ऐसे ही - याष्टीकः । (मतिः = बुद्धिः }
(१०) अस्तिनास्तिदिष्टम् मतिः । ६० । प०वि०-अस्ति-नास्ति-दिष्टम् १ | १ ( पञ्चम्यर्थे ) मति: १ । १ ।
स०- अस्तिश्च नास्तिश्च दिष्टं च एतेषां समहारोऽस्तिनास्तिदिष्टम् ( समाहारद्वन्द्वः) ।
अनु० - तत् अस्य, ठक् इति चानुवर्तते ।
अन्वयः-तद् अस्तिनास्तिदिष्टेभ्योऽस्य ठक् मतिः ।
अर्थ: तद् इति प्रथमासमर्थेभ्योऽस्तिनास्तिदिष्टेभ्यः प्रातिपदिकेभ्योऽस्येति षष्ठ्यर्थे यथाविहितं ठक् प्रत्ययो भवति, यत् प्रथमासमर्थं मतिश्चेत् तद् भवति ।
यथाविहितम् (ठक ) -
उदा०- ( अस्ति ) परलोकोऽस्तीति मतिरस्य - आस्तिक: । ( नास्ति ) परलोको नास्तीति मतिरस्य - नास्तिक: । (दिष्टम् ) दिष्टम् = दैवमस्तीति मतिरस्य दैष्टिकः । अत्र अस्तिनास्तिशब्दौ निपातौ वर्तेते, न क्रियापदे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org