________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
स०-कण्ठं कण्ठं प्रति इति प्रतिकण्ठम् । प्रतिकण्ठं च अर्थश्च ललामश्च एतेषां समाहारः प्रतिकण्ठार्थललामम्, तत्-प्रतिकण्ठार्थललामम् (अव्ययीभावगर्भितसमाहारद्वन्द्वः) ।
अनु०-तत्, ठक्, गृह्णाति इति चानुवर्तते ।
अन्वयः - तत् प्रतिकण्ठार्थललामेभ्यश्च गृह्णाति ठक् । अर्थ:-तद् इति द्वितीयासमर्थेभ्यः प्रतिकण्ठार्थललामेभ्यः प्रातिपदिकेभ्यश्च गृह्णातीत्यस्मिन्नर्थे यथाविहितं ठक् प्रत्ययो भवति ।
उदा०- (प्रतिकण्ठम् ) प्रतिकण्ठं गृह्णाति - प्रातिकण्ठिकः । (अर्थ: ) अर्थं गृह्णाति - आर्थिक: । ( ललाम: ) ललामं गृह्णाति - लालामिकः ।
आर्यभाषाः अर्थ- (तत्) द्वितीया-समर्थ (प्रतिकण्ठार्थललामम्) प्रतिकण्ठ, अर्थ, ललाम प्रातिपदिकों से (च) भी (गृह्णाति ) ग्रहण करता है अर्थ में (ठक्) यथाविहित ठक् प्रत्यय होता है।
४६०
उदा०-1 -(प्रतिकण्ठ) जो प्रतिकण्ठ-समस्त कण्ठ को ग्रहण करता है वह प्रातिकण्ठिक । (अर्थ) जो अर्थ = धन को ग्रहण करता है वह - आर्थिक । (ललाम ) जो ललामभूषण को ग्रहण करता है वह - लालामिक ।
सिद्धि प्रातिकण्ठिकः । प्रतिकण्ठ+अम्+ठक् । प्रातिकण्ठ्+इक । प्रातिकण्ठिक+सु । प्रातिकण्ठिकः ।
यहां द्वितीया-समर्थ 'प्रतिकण्ठ' प्रातिपदिक से गृह्णाति अर्थ में इस सूत्र से यथाविहित प्राग्वहतीय 'क' प्रत्यय है । पूर्ववत् अंग को आदिवृद्धि और अंग के अकार का लोप होता है। ऐसे ही - आर्थिक:, लालामिकः ।
चरति - अर्थप्रत्ययविधिः
यथाविहितम् (ठक)
(१) धर्मं चरति । ४१ ।
प०वि० - धर्मम् २ ।१ ( पञ्चम्यर्थे ) चरति क्रियापदम् । अनु० - तत्, ठक् इति चानुवर्तते ।
अन्वयः - तद् धर्माच्चरति ठक् ।
अर्थ:- तद् इति द्वितीयासमर्थाद् धर्मशब्दात् प्रातिपदिकाच्चरतीत्यस्मिन्नर्थे यथाविहितं ठक् प्रत्ययो भवति । अत्र चरतिरासेवा (पौनःपुन्यम्) गृह्यते, नानुष्ठानमात्रम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org