________________
३६८
णिनि:
पाणिनीय-अष्टाध्यायी- प्रवचनम्
(३) काश्यपकौशिकाभ्यामृषिभ्यां णिनिः । १०३ । प०वि० - काश्यप - कौशिकाभ्याम् ५ । २ ऋषिभ्याम् ५ । २ णिनिः १ । १ । स०-काश्यपश्च कौशिकश्च तौ काश्यपकौशिकौ, ताभ्याम्काश्यपकौशिकाभ्याम् ( इतरेतरयोगद्वन्द्व : ) ।
अनु० - तेन, प्रोक्तमिति चानुवर्तते ।
अन्वयः - तेन ऋषिभ्यां काश्यपकौशिकाभ्यां प्रोक्तं णिनिः । अर्थ: तेन इति तृतीयासमर्थाभ्याम् ऋषिवाचिभ्यां काश्यपकौशिकाभ्यां प्रातिपदिकाभ्यां प्रोक्तमित्यस्मिन्नर्थे णिनिः प्रत्ययो भवति ।
उदा०- (काश्यपः) काश्यपेन प्रोक्तं कल्पमधीयते - काश्यपिनः । कौशिकेन प्रोक्तं कल्पमधीयते - कौशिकिनः ।
आर्यभाषाः अर्थ- (तेन) तृतीया - समर्थ (ऋषिभ्याम्) ऋषिवाची (काश्यपकौशिकाभ्याम्) काश्यप, कौशिक प्रातिपदिकों से (प्रोक्तम् ) प्रोक्त अर्थ में ( णिनिः) णिनि प्रत्यय होता है।
उदा०- ( काश्यप) काश्यप ऋषि के द्वारा प्रोक्त कल्प के अध्येता - काश्यपी । (कौशिक) कौशिक ऋषि के द्वारा प्रोक्त कल्प के अध्येता-कौशिकी । सिद्धि-काश्यपिनः। काश्यप +टा+णिनि । काश्यप्+इन् । काश्यपिन्+जस् ।
काश्यपिनः ।
यहां तृतीया - समर्थ, ऋषिवाची 'काश्यप' शब्द से प्रोक्त अर्थ में तथा पूर्ववत् तद्विषयता होने से अध्येता - वेदिता अर्थ में इस सूत्र से णिनि प्रत्यय है । 'तद्धितेष्वचामादेः' (७/२ ।११७) से अंग को पर्जन्यवत् आदिवृद्धि और 'यस्येति च' (६ । ४ । १४८) से अंग के अकार का लोप होता है। ऐसे ही- कौशिकिनः ।
णिनि:
(४) कलापिवैशम्पायनान्तेवासिभ्यश्च ॥ १०४ ॥ प०वि०-कलापि-वैशम्पायनान्तेवासिभ्यः ५ । ३ च अव्ययपदम् । सo - कलापी च वैशम्पायनश्च तौ कलापिवैशम्पायनौ तयो:कलापिवैशम्पायनयोः । कलापिवैशम्पायनयोरन्तेवासिनः कलापिवैशम्पायनान्तेवासिनः, तेभ्य:- कलापिवैशम्पायनान्तेवासिभ्यः (इतरेतरयोगद्वन्द्वगर्भितषष्ठीतत्पुरुषः) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org