________________
३८२
छः
पाणिनीय-अष्टाध्यायी प्रवचनम्
(२) शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः | ८८ प०वि० - शिशुक्रन्द-यमसभ - द्वन्द्व - इन्द्रजननादिभ्यः ५ । ३ छ: १ ।१ । स०-इन्द्रजननम् आदिर्येषां ते इन्द्रजननादयः । शिशुक्रन्दश्च यमसभं च द्वन्द्वश्च इन्द्रजननादयश्च ते शिशुक्रन्द० इन्द्रजननादयः, तेभ्य:शिशुक्रन्द० इन्द्रजननादिभ्यः (बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः) ।
अनु०-तत्, अधिकृत्य, कृते, ग्रन्थे इति चानुवर्तते ।
अन्वयः-तत् शिशुक्रन्द०इन्द्रजननादिभ्यो ऽधिकृत्य कृतश्छो ग्रन्थे । अर्थः-तद् इति द्वितीयासमर्थेभ्य: शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यः प्रातिपदिकेभ्योऽधिकृत्य कृत इत्यस्मिन्नर्थे छ: प्रत्ययो भवति, योऽसौ कृतो ग्रन्थश्चेत् स भवति ।
उदा०- ( शिशुक्रन्दः) शिशूनां क्रन्द इति शिशुक्रन्दः । शिशुक्रन्दमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीय: । ( यमसभम् ) यमस्य सभेति यमसभम्। यमसभमधिकृत्य कृतो ग्रन्थो यमसभीयः । (द्वन्द्वः ) अग्निश्च काश्यपश्च एतयोः समाहारोऽग्निकाश्यपम् । अग्निकाश्यपमधिकृत्य कृतो ग्रन्थोऽग्नकाश्यपीयः । श्येनकपोतीयः । शब्दार्थसम्बन्धीयं प्रकरणम् । वाक्यपदीयम् । ( इन्द्रजननादिः ) इन्द्रजननमधिकृत्य कृतं प्रकरणम् इन्द्रजननीयम् । प्रद्युम्नागमनीयम् ।
I
इन्द्रजननादिराकृतिगणः स प्रयोगत एवानुसर्तव्य:, यतो हि स पाणिनीयगणपाठे प्रातिपदिकेषु न पठ्यते ।
आर्यभाषाः अर्थ- (तत्) द्वितीया-समर्थ (शिशुक्रन्द० इन्द्रजननादिभ्यः ) शिशुक्रन्द, यमसभ, द्वन्द्व, इन्द्रजननादि प्रातिपदिकों से (अधिकृत्य कृतः ) 'प्रस्तुत करके बनाया' अर्थ में (छः) छः प्रत्यय होता है (ग्रन्थे) जो बनाया है यदि वह ग्रन्थ हो ।
उदा०- - ( शिशुक्रन्द) शिशुक्रन्द (बच्चों का रोना) को प्रस्तुत करके बनाया गया ग्रन्थ- शिशुक्रन्दीय। (यमसभा) यमसभ ( राजा यम की सभा) को प्रस्तुत करके बनाया हुआ ग्रन्थ- यमसभीय | ( द्वन्द्व ) अग्नि और कश्यप ऋषि को प्रस्तुत करके बनाया गया ग्रन्थ-अग्निकाश्यपीय । श्येनकपोत = श्येन (बाज ) कपोत (कबूतर ) को प्रस्तुत करके बनाया हुआ ग्रन्थ- श्येनकपोतीय । (शब्दार्थसम्बन्ध) शब्द - अर्थसम्बन्ध = शब्द और अर्थसम्बन्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org