________________
पाणिनीय-अष्टाध्यायी- प्रवचनम्
स० - दृतिश्च कुक्षिश्च कलशिश्च वस्तिश्च अस्तिश्च अहिश्च एतेषां समाहारो दृति०अहि, तस्मात् दृति० अहे: ( समाहारद्वन्द्वः ) । अनु० - तत्र भव इति चानुवर्तते । अन्वयः - तत्र दृति०अहेर्भवो ढञ् ।
अर्थः- तत्र इति सप्तमीविभक्तिसमर्थेभ्यो दृतिकुक्षिकलशिवस्त्यस्त्यहिभ्यः प्रातिपदिकेभ्यो भव इत्यस्मिन्नर्थे ढञ् प्रत्ययो भवति ।
उदा०-(दृतिः) दृतौ भवं दार्तेयम् । (कुक्षिः) कुक्षौ भवं कौक्षेयम् । ( कलशि : ) कलशौ भवं कालशेयम् । ( वस्तिः ) वस्तौ भवं वाास्तेयम् । (अस्ति:) अस्तौ भवम् आस्तेयम्। (अहिः) अहौ भवम् आहेयम्। आहेयमजरं विषम् ।
३५२
आर्यभाषाः अर्थ - (तत्र) सप्तमी विभक्ति - समर्थ (वृति० अहे :) दृति, कुक्षि, कलशि, वस्ति, अस्ति, अहि प्रातिपदिकों से (भव:) भव अर्थ में (ढञ् ) ढञ् प्रत्यय होता है। उदा०- - (दृति) दृति-मशक में होनेवाला दार्तेय (जल) । (कुक्षि) कुक्षि= म्यान में होनेवाला-कौक्षेय (तलवार) । (कलशि) कलशि= गगरी में होनेवाला - कालशेय (तक्र आदि) । (वस्ति) वस्ति=नाभि के नीचे के भाग (पेडू) में होनेवाला - वास्तेय । (अस्ति) अस्ति=सत्ता में होनेवाला-आस्तेय। (अहि) अहि= सर्प में होनेवाला - आहेय (विष) ।
सिद्धि-दार्तेयम्। दृति+ङि+ढञ् । दार्त्+एय । दार्तेय+सु । दार्तेयम् ।
यहां सप्तमी-समर्थ ‘दृति' शब्द से भव अर्थ में इस सूत्र से ‘ढञ्' प्रत्यय है। 'तद्धितेष्वचामादेः' (७।२ । १४८) से अंग को आदिवृद्धि और 'यस्येति च ' ( ६ |४1९४८) से अंग के इकार का लोप होता है। ऐसे ही- कौक्षेयम् आदि ।
विशेषः यहां 'अस्ति' शब्द प्रातिपदिक है किन्तु तिङन्त के समानार्थक है। जैसे- अस्तिक्षीरा गौ: ।
अण्+ढञ्
(५) ग्रीवाभ्योऽण् च । ५७ ।
प०वि०- ग्रीवाभ्य: ५ ।१ अण् १ ।१ च अव्ययपदम् ।
अनु०-तत्र, भव:, ढञ् इति चानुवर्तते ।
अन्वयः - तत्र ग्रीवाभ्यो भवोऽण् ढञ् च ।
अर्थ:-तत्र इति सप्तमीविभक्तिसमर्थाद् ग्रीवा - शब्दात् प्रातिपदिकाद्
भव इत्यस्मिन्नर्थेऽण् ढञ् च प्रत्ययो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org