________________
३५०.
पाणिनीय-अष्टाध्यायी- प्रवचनम् भवार्थप्रत्ययप्रकरणम्
यथाविहितं प्रत्ययः
(१) तत्र भवः । ५३ ।
प०वि०-तत्र सप्तम्यर्थे अव्ययपदम् भव: १ । १ ।
अन्वयः-तत्र प्रातिपदिकाद् भवो यथाविहितं प्रत्ययः ।
अर्थः- तत्र इति सप्तमीविभक्तिसमर्थात् प्रातिपदिकाद् भव इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
उदा० - सुघ्ने भवः स्रौघ्नः । माथुरः । रौहितकः । राष्ट्रियः ।
आर्यभाषाः अर्थ- (तत्र) सप्तमी विभक्ति - समर्थ प्रातिपदिक से ( भव) भव अर्थ में यथाविहित प्रत्यय होता है ।
उदा० - सुघ्न नगर में होनेवाला - स्त्रौघ्न । मथुरा में होनेवाला - माथुर । रोहितक में होनेवाला - रौहितक। राष्ट्र में होनेवाला - राष्ट्रिय ।
सिद्धि-स्रौघ्नः। यहां सप्तमी समर्थ 'स्रुघ्न' शब्द से भव (होनेवाला) अर्थ में इस सूत्र से यथाविहित प्रत्यय का विधान किया गया है अत: 'प्राग्दीव्यतोऽण्' (४ । १।८३) से यथाविहित 'अण्' प्रत्यय होता है। शेष कार्य पूर्ववत् है । ऐसे ही - माथुर, रौहितक:, राष्ट्रियः ।
यत्
(२) दिगादिभ्यो यत् । ५४ ।
प०वि० - दिक्- आदिभ्यः ५ । ३ यत् १ । १ ।
Jain Education International
स०-दिक् आदिर्येषां ते दिगादय:, तेभ्य:- दिगादिभ्यः (बहुव्रीहि: ) । अनु० - तत्र, भव इति चानुवर्तते ।
अन्वयः-तत्र दिगादिभ्यो भवो यत् ।
अर्थः- तत्र इति सप्तमीविभक्तिसमर्थेभ्यो दिगादिभ्यः प्रातिपदिभ्यो भव इत्यस्मिन्नर्थे यत् प्रत्ययो भवति ।
उदा० - दिशि भवं दिश्यम् । वर्गे भवं वर्ग्यम्, इत्यादिकम् ।
दिश्। वर्ग। पूग। गण। पक्ष । धाय्या । मित्र । अन्तर। पथिन् । रहस्। अलीक। उखा। साक्षिन् । आदि। अन्त । मुख । जघन । मेष ।
For Private & Personal Use Only
www.jainelibrary.org