________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अनु० - तत्र, कालात्, देयम्, ऋणे, वुञ् इति चानुवर्तते । अन्वयः-तत्र कालाभ्यां संवत्सराग्रहायणीभ्यां देयं ठञ् वुञ् च ऋणे । अर्थ :- तत्र इति सप्तमीविभक्तिसमर्थाभ्यां कालविशेषवाचिभ्यां संवत्सराग्रहायणीभ्यां प्रातिपदिकाभ्यां देयमित्यस्मिन्नर्थे ठञ् वुञ् च प्रत्ययो भवति, यद् देयमृणं चेत् तद् भवति ।
३४८
उदा० - (संवत्सरः ) संवत्सरे देयमृणं सांवत्सरिकम् (ठञ् ) । सांवत्सरकम् (वुञ्)। (आग्रहायणी) आग्रहायण्यां देयमृणम्-आग्रहायणिकम् ( ठञ् ) । आग्रहायणकम् (वुञ्) ।
आर्यभाषा: अर्थ - (तत्र) सप्तमी विभक्ति-समर्थ (कालात्) कालविशेषवाची (संवत्सराग्रहायणीभ्याम्) संवत्सर, आग्रहायणी प्रातिपदिकों से ( दयम् ) देय अर्थ में (ठञ् ) ठञ् (च) और वुञ् प्रत्यय होते हैं ।
उदा०- - (संवत्सर) संवत्सर = वर्ष में देय ऋणि सांवत्सरिक ( ठञ् ) । सांवत्सरक (वुञ्) । ( आग्रहायणी) आग्रहायणी = मार्गशीर्ष मास की पूर्णिमा के दिन देय ऋण- आग्रहायणिक (ठञ्) । आग्रहायणक (वुञ्) ।
सिद्धि - (१) सांवत्सरिकम् । संवत्सर+ङि+ठञ् । सांवत्सर्+इक । सांवत्सरिक+सु । सांवत्सरिकम् ।
यहां सप्तमी-समर्थ कालवाची 'संवत्सर' शब्द से देय (ऋण) अर्थ में इस सूत्र से 'ठञ्' प्रत्यय है। शेष कार्य पूर्ववत् है ।
(२) सांवत्सरकम् । यहां पूर्वोक्त 'संवत्सर' शब्द से देय (ऋण) अर्थ में इस सूत्र से 'वुञ्' प्रत्यय है। शेष कार्य पूर्ववत् है । ऐसे ही - आग्रहायणिकम्, आग्रहायणकम् ।
'व्याहरति मृगः' इत्यर्थप्रत्ययविधिः
यथाविहितं प्रत्ययः
(१) व्याहरति मृगः । ५१ ।
प०वि० - व्याहरति क्रियापदम्, मृगः १ । १ । अनु० - तत्र, कालादिति चानुवर्तते ।
अन्वयः-तत्र कालाद् व्याहरति मृगो यथाविहितं प्रत्ययः । अर्थः- तत्र इति सप्तमीविभक्तिसमर्थात् कालविशेषवाचिनः प्रातिपदिकाद् व्याहरति मृग इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org