________________
चतुर्थाध्यायस्य तृतीयः पादः
३०६
अर्थः-यथासम्भवविभक्तिसमर्थात् पर- अवर - अधम - उत्तमपूर्वाच्च
अर्धात् प्रातिपदिकात् शेषेष्वर्थेषु यत् प्रत्ययो भवति।
उदा०- (परः) परार्धे भवं परार्ध्यम् । (अवर: ) अवरार्धे भवम् अवरार्ध्यम् । (अधम: ) अधमार्धे भवम् अधमार्ध्यम् । (उत्तमः) उत्तमार्धे भवम् उत्तमार्ध्यम् ।
आर्यभाषाः अर्थ-यथासम्भव-विभक्ति-समर्थ ( परावराधमोत्तमपूर्वात् ) पर, अवर, अधम, उत्तम पूर्वक (अर्धात्) अर्ध प्रातिपदिक से (च) भी (शेषे) शेष अर्थों में (यत्) यत् प्रत्यय होता है।
उदा०- (पर) परार्धे भवं परार्ध्यम् । परवर्ती अर्ध भाग में रहनेवाला - परार्ध्य । (अवर) अवरार्धे भवम् अवरार्ध्यम् । अवरवर्ती अर्धभाग में रहनेवाला - अवरार्ध्य । (अधम ) अधमार्धे भवम् अधमार्थ्यम् । अधोवर्ती अर्धभाग में रहनेवाला - अधमा । (उत्तम) उत्तमार्धे भवम् उत्तमार्ध्यम् । ऊर्ध्ववर्ती अर्धभाग में रहनेवाला उत्तमार्ध्य।
सिद्धि-परार्ध्यम् । पर+अर्ध+ङि+यत् । परार्ध+य। परार्ध्य+सु । परार्ध्यम् ।
यहां सप्तमी - समर्थ पर-पूर्वक 'अर्ध' शब्द से शेष अर्थों में इस सूत्र से 'यत्' प्रत्यय है। 'यस्येति च' (६ । ४ । १४८) से अंग के अकार का लोप होता है। ऐसे ही - अवरार्ध्यम् आदि ।
ठञ्+यत्
(६०) दिक्पूर्वपदाट्ठञ् च।६।
प०वि०-दिक्-पूर्वपदात् ५ ।१ ठञ् १ ।१ च अव्ययपदम् ।
सo - दिक्पूर्वपदं यस्य तद् दिक्पूर्वपदम् तस्मात् - दिक्पूर्वपदात् ( बहुव्रीहिः) ।
अनु० - शेषे, अर्धात्, यद् इति चानुवर्तते ।
अन्वयः - यथासम्भव०दिक्पूर्वपदाद् अर्थात् शेषे ठञ् यच्च ।
अर्थः-यथासम्भवविभक्तिसमर्थाद् दिक्पूर्वपदाद् अर्थात् प्रातिपदिकात् शेषेष्वर्थेषु ठञ् यच्च प्रत्ययो भवति ।
उदा०-पूर्वार्धे भवं पौर्वार्धिकम् (ठञ् ) । पूर्वार्ध्यम् (यत्) । दक्षिणार्धे भवं दाक्षिणार्धिकम् (ठञ् ) । दक्षिणार्ध्यम् (यत्) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org