________________
२७०
पाणिनीय-अष्टाध्यायी-प्रवचनम् स०-उदीचि भव उदीच्यः । उदीच्यश्चासौ ग्राम इति उदीच्यग्राम:, तस्मात्-उदीच्यग्रामात् (कर्मधारयतत्पुरुष:)। बहवोऽचो यस्मिँस्तत्-बहच्, तस्मात्-बह्वच: (बहुव्रीहि:)। अन्ते उदात्तो यस्य तत्-अन्तोदात्तम्, तस्मात्-अन्तोदात्तात् (बहुव्रीहिः)।
अनु०-शेषे, अञ् इति चानुवर्तते। अन्वय:-यथासम्भव०अन्तोदात्ताद् बहच उदीच्यग्रामाच्च शेषेऽञ् ।
अर्थ:-यथासम्भवविभक्तिसमर्थाद् अन्तोदात्ताद् बहच उदीच्यग्रामवाचिन: प्रातिपदिकाच्च शेषेष्वर्थेषु अञ् प्रत्ययो भवति ।
उदा०-शिवपुरे भवं शैवपुरम् । माण्डवपुरे भवं माण्डवपुरम् ।
आर्यभाषा: अर्थ-यथासम्भव-विभक्ति-समर्थ (अन्तोदात्तात्) अन्तोदात्त (बहच:) बहुत अचोंवाले (उदीच्यग्रामात्) उदीच्य-ग्रामवाची प्रातिपदिक से (च) भी (शेषे) शेष अर्थों में (अच्) अच् प्रत्यय होता है।
उदा०-शिवपुरे भवं शैवपुरम् । शिवपुर (काशी) ग्राम में रहनेवाला-शैवपुर। माण्डवपुरे भवं माण्डवपुरम् । माण्डवपुर नामक ग्राम में रहनेवाला-माण्डवपुर।
सिद्धि-शैवपुरम् । शिवपुर+डि+अञ् । शैवपुर्+अ। शैवपुर+सु । शैवपुरम् ।
यहां सप्तमी-समर्थ, अन्तोदात्त, बहच् उदीच्य-ग्रामवाची 'शिवपुर' शब्द से 'भव' शेष अर्थों में इस सूत्र से 'अञ्' प्रत्यय है। तद्धितेष्वचामादे:' (७।२।११७) से अंग को आदिवृद्धि होती है। ऐसे ही-माण्डवपुरम् ।
शिवपुरम् और माण्डवपुरम् शब्द समासस्य' (६ ।१ ।२२०) से अन्तोदात्त हैं। इनमें बहुत अच् स्पष्ट है। अण्
(१६) प्रस्थोत्तरपदपलद्यादिकोपधादण्।१०६ । प०वि०-प्रस्थोत्तरपद-पलद्यादि-कोपधात् ५।१ अण् १।१ ।
स०-प्रस्थ उत्तरपदं यस्य तत् प्रथस्थोत्तरपदम्। पलदी आदिर्येषां ते-पलद्यादय: । क उपधायां यस्य तत्-कोपधम् । प्रस्थोत्तरपदं च पलद्यादयश्च कोपधं च एतेषां समाहार:-प्रस्थोत्तरपदपलद्यादिकोपधम्, तस्मात् प्रस्थोत्तरपदपलद्यादिकोपधात् (बहुव्रीहिगर्भित-समाहारद्वन्द्वः) ।
अनु०-शेषे इत्यनुवर्तते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org