SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ चतुर्थाध्यायस्य द्वितीयः पादः २२५ यहां प्रथम प्रथमा-समर्थ 'अष्ट' शब्द से संख्याया अतिशदन्ताया: कन्' (५।१।२२) से परिमाण अर्थ में कन् प्रत्यय है। तत्पश्चात् द्वितीया-समर्थ, सूत्रवाची, ककारोपध 'अष्टक' शब्द से तदधीते तद् वेद' (४।२।५९) से यथाविहित 'अण्' प्रत्यय होता है, उसका इस सूत्र से लुक् हो जाता है। ऐसे ही-दशकाः, त्रिकाः । तद्विषयत्वम् (८) छन्दोब्राह्मणानि च तद्विषयाणि।६५ । प०वि०-छन्दोब्राह्मणानि १।३ च अव्ययपदम्, तद्विषयाणि १।३ । स०-छन्दांसि च ब्राह्मणानि च तानि छन्दोब्राह्मणानि (इतरेतरयोगद्वन्द्वः)। स (अधीते, वेद) विषयो येषां तानि तद्विषयाणि (बहुव्रीहि:)। अनु०-प्रोक्ताद् इत्यनुवर्तते। अर्थ:-तद् इति द्वितीयासमर्थानि प्रोक्तप्रत्ययान्तानि छन्दोवाचीनि ब्राह्मणवाचीनि च शब्दरूपाणि, तद्विषयाणि-अधीते, वेद इत्यर्थविषयाणि भवन्ति । अन्यत्राभावकानि भवन्तीत्यर्थः । विषयशब्दोऽयं बह्वर्थः । तद्विषयाणीत्यत्रान्यत्राभावेऽर्थे वर्तते । तद्यथा-मत्स्यानां विषयो जलमिति जलादन्यत्र तेषामभाव इत्यर्थः, तथा-प्रोक्त प्रत्ययान्तानि छन्दोब्राह्मणानि अधीते-वेदार्थविषयाणि, ततोऽन्यत्रा भावकानीत्यर्थः । उदा०-(छन्दांसि) कठेन प्रोक्तं कठः । कठमधीते वेद वा कठः । मोदेन प्रोक्तं मौद: । मौदमधीते वेद वा मौदः । पिप्पलादेन प्रोक्तं पैप्लाद: । पैप्लादमधीते वेद वा पैप्लाद: । ऋचाभेन प्रोक्तम्-आर्चाभी। आर्चाभिनमधीते वेद वाऽऽर्चाभी। वाजसनेयेन प्रोक्तं वाजसनेयी। वाजसनेयिनमधीते वेद वा वाजसनेयी। (ब्राह्मणानि) ताण्ड्येन प्रोक्तं ताण्डी। ताण्डिनमधीते वेद वा ताण्डी। भाल्लविना प्रोक्तं भाल्लवी। भाल्लविनमधीते वेद वा भाल्लवी। शाट्यायनेन प्रोक्तं शाट्यायनी। शाट्यायनिमधीते वेद वा शाट्यायनी। ऐतरेयण प्रोक्तम्-ऐतरेयी । ऐतरेयिणमधीते वेद वा ऐतरेयी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003298
Book TitlePaniniya Ashtadhyayi Pravachanam Part 03
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages624
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy