________________
चतुर्थाध्यायस्य द्वितीयः पादः
२१३ स०-भौरिकिरादिर्येषां ते-भौरिक्यादयः। ऐषुकारिरादिर्येषां तेऐषुकार्यादय: । भौरिक्यादयश्च ऐषुकार्यादयश्च ते-भौरिक्याद्यैषुकार्यादयः, तेभ्य:-भौरिक्याथैषुकार्यादिभ्यः (बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः) । विधल् च भक्तल् च तौ-विधल्भक्तलौ (इतरेतरयोगद्वन्द्व:)।
अनु०-तस्य, विषय:, देशे इति चानुवर्तते। अन्वयः-तस्य भौरिक्याद्यैषुकार्यादिभ्यो विषयो विधल्भक्तलौ देशे।
अर्थ:-तस्य इति षष्ठीसमर्थेभ्यो भौरिक्यादिभ्य ऐषुकार्यादिभ्यश्च प्रातिपदिकेभ्यो विषय इत्यस्मिन्नर्थे यथासंख्यं विधल्भक्तलौ प्रत्ययौ भवतः, योऽसौ विषयो देशश्चेत् स भवति ।
उदा०-(भौरिक्यादिः) भौरिकीणां विषयो देशो भौरिकिविधः । वैपेयानां विषयो देशो वैपेयविधः । (एषुकार्यादि:) ऐषुकारीणां विषयो देश ऐषुकारिभक्त: । सारस्यायनानां विषयो देश: सारस्यायनभक्तः ।
भौरिकि । भौलिकि। वैपेय। चैटयत । काणेय । वाणिजक । कालिज । वालिज्यक। शैकयत । वैकयत। इति भौरिक्यादयः ।।
ऐषुकारि । सारस्यायन । चान्द्रायण । व्याक्षायण । व्यायण । औडायन। जौडायन। खाडायन। सौवीर। दासमित्रि। दासमित्रायण। शौद्रायण । दाक्षायण । शयण्ड । ताायण । शौभ्रायण। सायण्डि। शौण्डि। वैश्वमाणव। वैश्वधेनव । नद । तुण्डदेव। अलायत। औलालायत। शौण्ड । शयाण्ड। वैश्वदेव । इत्यैषुकार्यादयः ।।
आर्यभाषा: अर्थ-(तस्य) षष्ठी-समर्थ (भौरिक्यादि-ऐषुकार्यादिभ्यः) भौरिकि आदि और ऐषुकारि आदि प्रातिपदिकों से (विषय:) विषय अर्थ में यथासंख्य (विधल्भक्तलौ) विधल और भक्तल् प्रत्यय होते हैं दिशे) जो विषय है यदि वह देश हो।
उदा०-(भौरिक्यादिः) भौरिकीणां विषयो देशो भौरिकिविधः। भौरिकि जनों का देश-भौरिकिविध । वैपेयानां विषयो देशो वैपेयविधः । वैपायन जनों का देश-वैपायनविध । (ऐषुकार्यादि:) ऐषुकारीणां विषयो देश ऐषुकारिभक्त:। ऐषुकारि जनों का देश-ऐषुकारिभक्त । सारस्यायनानां विषयो देश: सारस्यायनभक्त: । सारस्यायन जनों का देश-सारस्यायभक्त।
सिद्धि-भौरिकिविधः । भौरिकि+आम्+विधल्। भौरिकिविध+सु। भौरिकिविधः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org