________________
१६४
पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-अग्निर्देवताऽस्य-आग्नेयो मन्त्रः। तद्यथा-अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् (ऋ० १।१।१)।
आर्यभाषा: अर्थ-(सा) प्रथमा-समर्थ (अग्ने:) अग्नि प्रातिपदिक से (अस्य) षष्ठी-विभक्ति के अर्थ में (ढक्) ढक् प्रत्यय होता है (देवता) जो प्रथमा-समर्थ है यदि वह देवता हो।
उदा०-अग्निर्देवताऽस्य-आग्नेयो मन्त्रः। अग्नि देवता है इसका यह-आग्नेय
मन्त्र।
सिद्धि-आग्नेयम् । अग्नि+सु+ढक् । आग्न्+एय। आग्नेय+सु । आग्नेयम् ।
यहां प्रथमा-समर्थ, देवतावाची ‘अग्नि' प्रातिपदिक से इस सूत्र से ढक्' प्रत्यय है। प्रत्यय के कित् होने से 'किति च' (७।२।११८) से अंग को आदिवद्धि होती है। आयनेय०' (७।१।२) से 'द' के स्थान में 'एय्' आदेश और 'यस्येति च' (६।४।१४८) से अंग का इकार-लोप होता है।
(१०) कालेभ्यो भववत्।३३। प०वि०-कालेभ्य: ५।३ भववत् अव्ययपदम्। भवे इव भववत् 'तत्र तस्येव' (५।१ ।११५) इति सप्तम्यर्थे वति: प्रत्ययः ।
अनु०-सा, अस्य, देवता इति चानुवर्तते। अन्वय:-सा कालेभ्योऽस्य भववद् देवता।
अर्थ:-सा इति प्रथमासमर्थेभ्य: कालविशेषवाचिभ्य: प्रातिपदिकेभ्योऽस्य इति षष्ठ्यर्थे भववत् प्रत्यया भवन्ति, यत् प्रथमासमर्थं देवता चेत् सा भवति।
‘कालेभ्यः' इति बहुवचननिर्देशात् कालविशेषवाचिनो मासादयो गृह्यन्ते। 'भववत्' इत्यस्यायमर्थ:-'कालाट्ठञ् (४।३।११) इत्यस्मिन् प्रकरणे कालविशेषवाचिभ्य: प्रातिपदिकेभ्यो ये प्रत्यया विहितास्ते ‘साऽस्य देवता' इत्यस्मिन्नर्थेऽपि भवन्ति।
उदाo-मासो देवताऽस्य-मासिकम्। अर्धमासो देवताऽस्य-आर्धमासिकम्। संवत्सरो देवताऽस्य-सांवत्सरिकम्। वसन्तो देवताऽस्यवासन्तम् । प्रावृड् देवताऽस्य-प्रावृषेण्यम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org