________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
यहां प्रथमा-समर्थ, देवतावाची 'वायु' प्रातिपदिक से इस सूत्र से 'यत्' प्रत्यय है । 'ओर्गुण:' (६।४।१४६) से अंग को गुण और 'वान्तो यि प्रत्यये' ( ६ |१| ७६ ) से 'अव्' आदेश होता है। ऐसे ही 'ऋतु' शब्द से ऋतव्यम् ।
(२) पित्र्यम् । पितृ+सु+यत् । पित्रीङ्+य । पित्री+य । पित्र्+य । पित्र्य+सु । पित्र्यम् ।
१६२
यहां पूर्ववत् 'पितृ' प्रातिपदिक से इस सूत्र से 'यत्' प्रत्यय है। 'रीङ् ऋत: ' (७/४/२७) से अंग को रीङ् आदेश और 'यस्येति च' (६ । ४ । १०८) से अंग के ईकार का लोप होता है। ऐसे ही 'उषस्' शब्द से- उषस्यम् ।
छः+यत्
(८) द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च । ३१ ।
प०वि० द्यावापृथिवी - शुनासीर - मरुत्वद्-अग्नीषोम-वास्तोष्पतिगृहमेधात् ५।१ छ १।१ ( सु- लुक्) च अव्ययपदम् ।
सo -
- द्यौश्च पृथिवी च ते द्यावापृथिव्यौ । शुनश्च सीरश्च तौ शुनासीरौ । अग्निश्च सोमश्च तौ अग्नीषोमौ । वास्तुनः पतिरिति वास्तोष्पतिः । द्यावापृथिव्यौ च शुनासीरौ च मरुत्वाँश्च अग्नीषोमौ च वास्तोष्पतिश्च गृहमेधश्च एतेषां समाहारः - द्यावापृथिवी०गृहमेधम्, तस्मात् द्यावापृथिवी०गृहमेधात् ( इतरेतरयोगद्वन्द्वषष्ठीतत्पुरुषगर्भित: समाहारद्वन्द्व : ) ।
अन्वयः-सा द्यावापृथिवी०गृहमेधाद् अस्य छो यच्च देवता ।
अर्थ:-सा इति प्रथमासमर्थेभ्यो द्यावापृथिवीशनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधेभ्यः प्रातिपदिकेभ्योऽस्य इति षष्ठ्यर्थे छो यच्च प्रत्ययो भवति, यत् प्रथमासमर्थं देवता चेत् सा भवति ।
उदा०- ( द्यावापृथिव्यौ ) द्यावापृथिव्यौ देवते अस्य - द्यावापृथिवीयं हविः (छ: ) । द्यावापृथिव्यं हविः (यत्) । (शुनासीरौ ) शुनासीरौ देवते अस्य - शुनासीरीयं हविः ( छ : ) । शुनासीर्यं हविः (यत्) । ( मरुत्वान् ) मरुत्वान् देवताऽस्य-मरुत्वतीयं हविः (छ) । मरुत्वत्यं हविः (यत्) । (अग्नीषोमो) अग्निषोमौ देवताऽस्य - अग्नीषोमीयं हविः (छः ) । अग्निषोम्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org