________________
११७
चतुर्थाध्यायस्य प्रथमः पादः ढक् (इन)
(७) कल्याण्यादीनामिनङ् च।१२६ । प०वि०-कल्याणी-आदीनाम् ६।३ इनङ् १।१ च अव्ययपदम् ।
स०-कल्याणी आदिर्येषां ते-कल्याण्यादय:, तेषाम्-कल्याण्यादीनाम् (बहुव्रीहिः)।
अनु०-तस्य, अपत्यम्, ढक् इति चानुवर्तते। अन्वय:-तस्य कल्याणादीनाम् अपत्यं ढक् इनङ् च ।
अर्थ:-तस्य इति षष्ठीसमर्थेभ्य: कल्याण्यादिभ्य: प्रातिपदिकेभ्योऽपत्यमित्यस्मिन्नर्थे ढक् प्रत्ययो भवति, इनङ् चादेशो भवति ।
उदा०-कल्याण्या अपत्यम्-काल्याणिनेयः । सुभगाया अपत्यम्सौभागिनेयः।
कल्याणी। सुभगा । दुर्भगा। बन्धकी । अनुदृष्टि । अनुसृष्टि । जरती। बलीवर्दी । ज्येष्ठा। कनिष्ठा। मध्यमा। परस्त्री। इति कल्याण्यादयः ।
आर्यभाषा: अर्थ-(तस्य) षष्ठी-समर्थ (कल्याण्यादीनाम्) कल्याणी आदि प्रातिपदिकों से (अपत्यम्) अपत्य अर्थ में (ढक्) ढक् प्रत्यय होता है (च) और उन्हें (इनङ्) इनङ् आदेश होता है।
उदा०-कल्याण्या अपत्यम्-काल्याणिनेयः। कल्याणी का पुत्र-काल्याणिनेय। सुभगाया अपत्यम्-सौभागिनेयः । सुभगा का पुत्र-सौभागिनेय।
___ सिद्धि-(१) काल्याणिनेयः । कल्याणी+डस्+ढक्। काल्याण+इन+एय। काल्याणिन्+एय। काल्याणिनेय+सु। काल्याणिनेयः ।
यहां षष्ठी-समर्थ कल्याणी' शब्द से अपत्य अर्थ में इस सूत्र से ढक् प्रत्यय और कल्याणी' शब्द को इनङ्' आदेश होता है। शेष कार्य पूर्ववत् है।
(२) सौभागिनेय: । यहां हृद्भगसिन्ध्यन्तेः' (७।३।१९) से अंग को उभयपद-वृद्धि होती है। शेष कार्य पूर्ववत् है। ढक्-विकल्पः
(८) कुलटाया वा।१२७ । प०वि०-कुलटाया: ५ ।१ वा अव्ययपदम्। अनु०-तस्य, अपत्यम्, ढक्, इनङ् इति चानुवर्तते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org