SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ξτ अञ् पाणिनीय-अष्टाध्यायी-प्रवचनम् (३) पार्वतायनः । पर्वत+ ङस् + फक् । पार्वतायन+सु । पार्वतायनः । पूर्ववत् । (४) पार्वति: । पर्वत: ङस् + इञ् । पार्वतिः । पूर्ववत् । (५) जैवन्तायन: । जीवन्त+ङस्+फक् । जैवन्तायनः । पूर्ववत् । (६) जैवन्तिः । जीवन्त+इञ् । जैवन्तिः । पूर्ववत् । (१) अनृष्यानन्तर्ये बिदादिभ्योऽञ् ॥१०४ | प०वि० - अनृषि ५ | १ ( लुप्तपञ्चमीनिर्देश:) आनन्तर्ये ७ । १ बिदादिभ्यः ५ ।१ अञ् १ ।१ । स०-न ऋषिरिति अनृषिः (नञ्तत्पुरुषः) । अनन्तरस्य भाव आनन्तर्यम्, तस्मिन्-आनन्तर्ये ( तद्धित: ष्यञ् ) । बिद आदिर्येषां ते-बिदादय:, तेभ्य:-बिदादिभ्यः (बहुव्रीहि: ) । अनु०-तस्य, अपत्यम्, गोत्रे इति चानुवर्तते । अन्वयः-तस्य बिदादिभ्यो गोत्रेऽपत्यम् अञ्, अनृषिभ्य आनन्तर्येऽपत्यम्, अञ् । अर्थ :- तस्य इति षष्ठीसमर्थेभ्यो बिदादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्येऽर्थेऽञ् प्रत्ययो भवति, अत्र ये चानृषिवाचिनः शब्दास्तेभ्योऽनन्तरापत्येऽर्थेऽञ् प्रत्ययो भवति । उदा०-(बिदादि ) बिदस्य गोत्रापत्यम् - बैदः । उर्वस्य गोत्रापत्यम्और्वः । (अनृषिः) पुत्रस्यानन्तरापत्यम्-पौत्रः । दुहितुरनन्तरापत्यम्-दौहित्रः । विद । उर्व। कश्यप । कुशिक । भरद्वाज | उपमन्यु । किलाल । किदर्भ । विश्वानर । ऋष्टिषेण । ऋषभाग । हर्य्यश्व । प्रियक । आपस्तम्ब । कूचवार। शरद्वत्। शुनक । धेनु । गोपवन। शिग्रु । बिन्दु। भाजन । अश्वावतान । श्यामाक । श्यमाक । श्यापर्ण । हरित । किन्दास । वयस्क । अर्कलूष । बध्योष । विष्णुवृद्ध । प्रतिबोध । रथन्तर । रथीतर । गविष्ठिर । निषाद। मठर। मृद। पुनर्भू। पुत्र। दुहितृ। ननान्दृ। 'परस्त्री, परशुं च' । किता । सम्बक । शावली । श्यायक । अलस । इति बिदादयः । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003298
Book TitlePaniniya Ashtadhyayi Pravachanam Part 03
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages624
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy