________________
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-समर्थानां प्रथमात् तस्य अतोऽपत्यं वा इञ्।
अर्थ:-समर्थानां सूत्रे प्रथमोच्चारितात् तस्य इति षष्ठी-समर्थाद् अकारान्तात् प्रातिपदिकाद् 'अपत्यम्' इत्यस्मिन्नर्थे विकल्पेन 'इञ्' प्रत्ययो भवति।
उदा०-दक्षस्यापत्यम्-दाक्षि:, प्लाक्षि: । दशरथस्यापत्यम्-दाशरथिः ।
आर्यभाषा: अर्थ-(समर्थानाम्) समर्थ पदों में (प्रथमात्) सूत्रपाठ में प्रथम उच्चारित (तस्य) षष्ठी-समर्थ (अत:) अकारान्त प्रातिपदिक से (अपत्यम्) अपत्य अर्थ में (वा) विकल्प से (इञ्) इञ् प्रत्यय होता है।
उदा०-दक्षस्यापत्यम्-दाक्षि: । दक्ष का पुत्र-दाक्षि । प्लाक्षिः। प्लक्ष का पुत्र-प्लाक्षि। दशरथस्यापत्यम्-दाशरथिः । दशरथ का पुत्र (राम)।
सिद्धि-दाक्षिः। दक्ष+डस्+इञ्। दाक्ष्+इ। दाक्षि+सु । दाक्षिः।
यहां षष्ठी-समर्थ अकारान्त दक्ष' शब्द से इस सूत्र से अपत्य अर्थ में 'इञ्' प्रत्यय है। तद्धितेष्वचामादेः' (७।२।११७) से अंग को आदिवद्धि और यस्येति च' (६।१।१४८) से अंग के अकार का लोप होता है। ऐसे ही-प्लाक्षि: आदि। इञ्
(२) बाहादिभ्यश्च ।६६। प०वि०-बाहादिभ्य: ५।३ च अव्ययपदम् । स०-बाहुरादिर्येषां ते-बाहादय:, तेभ्य:-बाहादिभ्य: (बहुव्रीहि:)। अनु०-समर्थानाम्, प्रथमात् वा, तस्य, अपत्यम्, इञ् इति चानुवर्तते । अन्वय:-समर्थानां प्रथमात् तस्य बाहादिभ्यश्चाऽपत्यं वा इञ्।
अर्थ:-समर्थानां सूत्रे प्रथमोच्चारितेभ्य: 'तस्य' इति षष्ठीसमर्थेभ्यो बाहादिभ्यश्च प्रातिपदिकेभ्योऽपत्यमित्यस्मिन्नर्थे विकल्पेन इञ् प्रत्ययो भवति ।
उदा०-बाहोरपत्यम्-बाहविः। उपबाहोरपत्यम्-औपबाहवि:, इत्यादिकम्।
बाहु। उपबाहु। विवाकु। शिवाकु। बटाकु। उपबिन्दु। बृक। चूडाला। मूषिका । बलाका । भगला। छगला। ध्रुवका । धुवका । सुमित्रा। दुर्मित्रा। पुष्करसत् । अनुहरत् । देवशर्मन् । अग्निशर्मन् । कुनामन् । सुनामन् । पञ्चन्। सप्तन्। अष्टन्। अमितौजस: सलोपश्च। उदञ्चु । शिरस्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org