________________
५००
पाणिनीय-अष्टाध्यायी-प्रवचनम् स०-विशिश्च पतिश्च पदिश्च स्कन्द् च ते-विशिपतिपदिस्कन्दः, तेषाम्-विशिपतिपदिस्कन्दाम् (इतरेतरयोगद्वन्द्व:)।
अनु०-णमुल्, द्वितीयायामिति चानुवर्तते।
अन्वय:-द्वितीयायां व्याप्यमानासेव्यमानयोर्विशि०स्कन्दिभ्यो धातुभ्यो ण्मुल्। ___ अर्थ:-द्वितीयान्ते शब्दे उपपदे व्याप्यमान-आसेव्यमानयोरर्थयोवर्तमानेभ्यो विशिपतिपदिस्कन्दिभ्यो धातुभ्य: परो णमुल् प्रत्ययो भवति ।
विशि-आदिभिः क्रियाभिः सह साकल्येन पदार्थानां सम्बन्धो व्याप्तिरित्युच्यते । तात्पर्य चाऽऽसेवा भवति । द्रव्ये व्याप्तिर्भवति क्रियायां चाऽऽसेवा भवति। समासेन व्याप्ति-आसेवयोरुक्त्वात् 'नित्यवीप्सयो:' (८।१।४) इति द्विवचनं न भवति, 'उक्तार्थानामप्रयोगः' इति वचनात् । असमासपक्षे तु व्याप्यमानतायां द्रव्यस्य द्विर्वचनं भवति । आसेव्यमानतायां च क्रियावचनस्य द्विर्वचनं भवति । तथा चोक्तम्-सुप्सु वीप्सा तिक्षु च नित्यता भवति । उदाहरणम्धातुः व्याप्यमानता आसेव्यमानता विशि: (क) गेहानुप्रवेशमास्ते। गेहानुप्रवेशमास्ते।
(ख) गेहं गेहमनुप्रवेशमास्ते गेहमनुप्रवेशमनुप्रवेशमास्ते। पति: (क) गेहानुप्रपातमास्ते। गेहानुप्रपातमास्ते।
(ख) गेहं गेहमनुप्रपातमास्ते। गेहमनुप्रपातमनुप्रपातमास्ते। पदि: (क) गेहानुप्रपादमास्ते। गेहानुप्रपादमास्ते।
(ख) गेहं गेहमनुप्रपादमास्ते। गेहमनुप्रपादमनुप्रपादमास्ते। स्कन्दि: (क) गेहावस्कन्दमास्ते। गेहावस्कन्दमास्ते।
(ख) गेहं गेहमवस्कन्दमास्ते। गेहमवस्कन्दमवस्कन्दमास्ते।
आर्यभाषा-अर्थ-(द्वितीयायाम्) द्वितीयान्त शब्द उपपद होने पर (व्याप्यमानासेव्यमानयोः) व्याप्यमान और आसेव्यमान अर्थ में विद्यमान (विशि०स्कन्दाम्) विशि, पति, पदि, स्कन्द् (धातो:) धातुओं से परे (णमुल्) णमुल् प्रत्यय होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org