________________
४८४
पाणिनीय-अष्टाध्यायी-प्रवचनम् णमुल्
___ (६) शुष्कचूर्णरूक्षेषु पिषः ।३५ । प०वि०-शुष्क-चूर्ण-रूक्षेषु ७।३ पिष: ५।१ ।
स०-शुष्कं च चूर्णं च रूक्षं च तानि-शुष्कचूर्णरूक्षाणि, तेषु-शुष्कचूर्णरूक्षेषु (इतरेतरयोगद्वन्द्वः) ।
अनु०-णमुल् कर्मणि इति चानुवर्तते । अन्वय:-शुष्कचूर्णरूक्षेषु कर्मसु पिषो धातोर्णमुल् ।
अर्थ:-शुष्कचूर्णरूक्षेषु कर्मसु उपपदेषु पिष्-धातो: परो णमुल् प्रत्ययो भवति।
उदा०-(शुष्कम्) शुष्कपेषं पिनष्टि। शुष्कं पिनष्टीत्यर्थ: । (चूर्णम्) चूर्णपषं पिनष्टि । चूर्णं पिनष्टीत्यर्थ: । (रूक्षम्) रूक्षपेषं पिनष्टि । रूक्षं पिनष्टीत्यर्थः ।
आर्यभाषा-अर्थ-(शुष्कचूर्णरूक्षेषु) शुष्क, चूर्ण, रूक्ष शब्द (कमणि) कर्म उपपद होने पर (पिष:) पिष् (धातो:) धातु से परे (णमुल्) णमुल् प्रत्यय होता है।
उदा०-(शुष्क) शुष्कपेषं पिनष्टि । शुष्क द्रव्य को पीसता है। (चूर्ण) चूर्णपषं पिनष्टि । चून पीसता है। (रूक्ष) रूक्षपेषं पिनष्टि । रूक्ष द्रव्य को पीसता है।
सिद्धि-(१) शुष्कपेषम्। यहां शुष्क कर्म उपपद होने पर पिष्ल संचूर्णने (रुधा०प०) धातु से इस सूत्र से 'णमुल्' प्रत्यय है। 'पुगन्तलघूपधस्य च' (७।३।८६) से 'पिष्' धातु को लघूपध गुण होता है। कषादिषु यथाविध्यनुप्रयोग:' (३।४।४६) से पिष्' धातु से णमुल्' प्रत्यय किया गया है, अत: पिष्' धातु का ही अनुप्रयोग किया जाता है-पिनष्टि, अन्य धातु का नहीं।
(२) चूर्णपषम्/रूक्षपेषम् । पूर्ववत् । णमुल्
(१०) समूलाकृतजीवेषु हन्कृञ्ग्रहः ।३६ । प०वि०-समूल-अकृत-जीवेषु ७।३ हन्-कृञ्-ग्रह: ५।१ ।
स०-समूलं च अकृतं च जीवश्च ते-समूलाकृतजीवा:, तेषुसमूलाकृतजीवेषु (इतरेतरयोगद्वन्द्व:)। हन् च कृञ् च ग्रह् च एतेषां समाहार:-हन्कृञ्ग्रह, तस्मात्-हनुकृञ्ग्रह: (समाहारद्वन्द्वः)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org