________________
४८१
तृतीयाध्यायस्य चतुर्थः पादः
४८१ णमुल्
(६) चर्मोदरयोः पूरेः ।३१। प०वि०-चर्म-उदरयो: ७।२ पूरे: ५।१ ।
स०-चर्म च उदरं च ते-चर्मोदरे, तयो:-चर्मोदरयोः (इतरेतरयोगद्वन्द्वः)।
अनु०-णमुल्, कर्मणि इति चानुवर्तते । अन्वय:-चर्मोदरयो: कर्मणोः पूरेर्धातोर्णमुल्।
अर्थ:-चर्मोदरयो: कर्मणोरुपपदयो: पूरि-धातो: परो णमुल् प्रत्ययो भवति । पूरिरिति णिजन्तस्येदं ग्रहणम् ।
उदा०-(चर्म) चर्मपूरं स्तृणाति। (उदरम्) उदरपूरं भुङ्क्ते।
आर्यभाषा-अर्थ-(चर्मोदरयोः) चर्म और उदर शब्द (कर्मणि) कर्म उपपद होने पर (पूरे:) णिजन्त पूरि (धातो:) धातु से परे (णमुल्) णमुल् प्रत्यय होता है।
उदा०-(चर्म) चर्मपूरं स्तृणाति । चर्म को फैला करके ढकता है। (उदरम्) उदरपूरं भुङ्क्ते। उदर को पूर्ण करके खाता है (पेटभर खाता है)।
सिद्धि-(१) चर्मपूरम् । यहां चर्म कर्म उपपद होने पर पूरी आप्यायने (दि०आ०) इस णिजन्त धातु से इस सूत्र से णमुल्' प्रत्यय है। णमुल्' प्रत्यय के परे होने पर 'णेरनिटि' (६।४।५१) से 'णिच्' प्रत्यय का लुक् हो जाता है।
(१) उदरपूरम् । पूर्ववत्। णमुल् (वर्षप्रमाणे)
(६) वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ।३२।
प०वि०-वर्षप्रमाणे ७।१ ऊलोप: ११ अस्य ६।१ अन्यतरस्याम् अव्ययपदम्।
स०-वर्षस्य प्रमाणमिति वर्षप्रमाणम्, तस्मिन्-वर्षप्रमाणे (षष्ठीतत्पुरुषः)। ऊकारस्य लोप इति ऊलोप: (षष्ठीतत्पुरुषः)।
अनु०-णमुल्, कर्मणि पूरे: इति चानुवर्तते। अन्वय:-कर्मणि पूरेर्धातोर्णमुल्, ऊलोपश्चास्यान्यतरस्याम् ।
अर्थ:-कर्मणि कारके उपपदे पूरिधातो: परो णमुल् प्रत्ययो भवति, धातोरूकारस्य च विकल्पेन लोपो भवति, वर्षस्य प्रमाणे गम्यमाने।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org