________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
स०- समानः
कर्ता ययोर्धात्वर्थयोस्तौ - समानकर्तृकौ, तयो:समानकर्तृकयोः (बहुव्रीहिः) । पूर्वश्चासौ काल इति पूर्वकाल:, तस्मिन् - पूर्वकाले ( कर्मधारयः) ।
अनु० - क्त्वा इत्यनुवर्तते । अन्वयः-समानकर्तृकयोर्धात्वोः पूर्वकाले धातोः क्त्वा ।
अर्थः-समानकर्तृकयोर्धात्वर्थयोस्तत्र पूर्वकाले धात्वर्थे वर्तमानाद् धातोः
४७२
परः क्त्वा प्रत्ययो भवति ।
उदा० - भुक्त्वा व्रजति देवदत्तः । पीत्वा व्रजति यज्ञदत्तः ।
आर्यभाषा-अर्थ- (समानकर्तृकयोः) समान कर्तावाले दो धातु- अर्थों में से (पूर्वकाले) पूर्वकालविषयक धात्वर्थ में विद्यमान (धातोः) धातु से परे ( क्त्वा) क्त्वा प्रत्यय होता है। उदा० - भुक्त्वा व्रजति देवदत्तः । देवदत्त खाकर जाता है । पीत्वा व्रजति यज्ञदत्तः । यज्ञदत्त पीकर जाता है 1
सिद्धि - (१) भुक्त्वा । भुज् + क्त्वा । भुक्+त्वा । भुक्त्वा+सु । भुक्त्वा ।
यहां 'भुज्' धातु से इस सूत्र से 'क्त्वा' प्रत्यय है। प्रत्यय के कित्' होने से पूर्ववत् प्राप्त लघूपधगुण का प्रतिषेध होता है। 'चोः कुः' (८/२/३०) से 'भुज्' धातु के 'ज्' को कुत्व 'ग्' और 'खरि च' (८/४/५४) से 'ग्' को चर् 'क्' होता है।
(२) पीत्वा । पा+क्त्वा । पी+त्वा । पीत्वा+सु। पीत्वा ।
यहां 'पापाने (भ्वा०प०) धातु से इस सूत्र से 'क्त्वा' प्रत्यय और 'घुमास्था०' (६/४/६६ ) से 'पा' के 'आ' को ईत्व होता है ।
विशेष- यहां 'भुज्' और 'व्रज्' धात्वर्थों का कर्ता एक (समान) देवदत्त है। इन दोनों धात्वर्थों में से 'भुज्' का धात्वर्थ पूर्वकाल में है और 'व्रज' का धात्वर्थ उत्तरकाल में है, अत: 'भुज्' धातु से क्त्वा प्रत्यय होता है।
क्त्वाणमुल्प्रत्ययप्रकरणम्
क्त्वा + णमुल् (आभीक्ष्ण्ये) -
(५) आभीक्ष्ण्ये णमुल् च । २२ ।
।
प०वि०-आभीक्ष्ण्ये ७।१ णमुल् १ ।१ च अव्ययपदम् । क्रियायाः पौनःपुन्यम्=आभीक्ष्ण्यम्, तस्मिन्-आभीक्ष्ण्ये ।
अनु० - समानकर्तृकयोः पूर्वकाले क्त्वा इति चानुवर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org