________________
४४५
तृतीयाध्यायस्य तृतीयः पादः
अर्थः- आशीर्विशिष्टेऽर्थे वर्तमाने काले धातो: परौ लिङ्लोटौ प्रत्ययौ भवतः। आशंसनमाशीः= अप्राप्तस्याभीष्टस्य पदार्थस्य प्राप्तुमिच्छा ।
उदा०-(लिङ्) चिरं जीव्याद् भवान् । (लोट्) चिरं जीवतु भवान् । आर्यभाषा - अर्थ - (आशिषि) अप्राप्त अभीष्ट पदार्थ की प्राप्ति की इच्छा में (वर्तमाने) वर्तमानकाल में (धातोः) धातु से परे (लिङ्लोटौ) लिङ् और लोट् प्रत्यय होते हैं।
उदा०- - (लिङ्) चिरं जीव्याद् भवान् । आप चिरकाल तक जीवित रहें, ऐसी मेरी इच्छा है। (लोट्) चिरं जीवतु भवान् । अर्थ पूर्ववत् है ।
सिद्धि - (१) जीव्यात् । जीव्+लिङ् । जीव् +यासुट्+तिप् । जीव+यास्+सुट्+त् । जीव्+यास्+स्+त्। जीव्+या+त् । जीव्यात् ।
यहां 'जीव प्राणधारणे' (भ्वा०प०) धातु से इस सूत्र से आशीर्वाद अर्थ में, वर्तमानकाल में 'लिङ्' प्रत्यय है । 'यासुट् परस्मैपदेषूदात्तो ङिच्च' (३/४ /१०३) से 'यासुट्' आगम और 'सुट् तिथो:' ( ३ | ४ | १०७) से 'सुट्' आगम होता है। 'स्को: संयोगाद्योरन्ते च' (८।२।२९) से 'यास्' के 'स्' और 'सुट्' के 'स्' का लोप हो
जाता है
/
(२) जीवतु । यहां पूर्वोक्त 'जीव' धातु से इस सूत्र से पूर्ववत् 'लोट्' प्रत्यय है । 'एरु:' (२।४।८६) से तिप्' के 'इ' को 'उ' आदेश होता है।
क्तिच्+क्तः (आशिषि) -
(१५) क्तिच्क्तौ च संज्ञायाम् । १७४ |
प०वि० - क्तिच् क्तौ १२ च अव्ययपदम् संज्ञायाम् ७ । १ । अनु० - वर्तमाने, आशिषि इति चानुवर्तते ।
अन्वयः - आशिषि वर्तमाने धातो: क्तिच्क्तौ च संज्ञायाम् । अर्थ:-आशीर्विशिष्टेऽर्थे वर्तमाने काले धातोः परौ क्तिच्क्तौ च प्रत्ययौ भवतः, संज्ञायां गम्यमानायाम्।
उदा०-(क्तिच्) तनुतादिति तन्तिः । सनुतादिति सातिः । भवतादिति भूति: । ( क्तः ) देवा एनं देयासुरिति देवदत्तः ।
आर्यभाषा - अर्थ - (आशिषि) आशीर्वाद अर्थ में (वर्तमाने) वर्तमानकाल में (धातो: ) धातु से परे (क्तिच्- क्तौ) क्तिच् और क्त प्रत्यय (च) भी होते हैं (संज्ञायाम्) यदि वहां संज्ञा अर्थ की प्रतीति हो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org