________________
४२८
पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-लिङ् इत्यनुवर्तते। अन्वय:-सम्भावने धातोर्लिङ्, अलमिति चेत्, सिद्धाप्रयोगे।
अर्थ:-सम्भावनेऽर्थे वर्तमानाद् धातो: परो लिङ् प्रत्ययो भवति, तच्चेत् सम्भावनमलमात्मकं भवति, सिद्धश्चेदलमोऽप्रयोगो भवति । क्व चासौ सिद्ध: ? यत्र गम्यतेऽर्थो न तु शब्दः प्रयुज्यते।
उदा०-अपि पर्वतं शिरसा भिन्द्यात् । अपि द्रोणपाकं भुञ्जीत।
आर्यभाषा-अर्थ-(सम्भावने) सम्भावना अर्थ में विद्यमान (धातो:) धातु से परे (लिङ्) लिङ् प्रत्यय होता है, (चेत्) यदि वह सम्भावना (अलम्) अलमात्मक-पर्याप्ति अर्थक हो (सिद्धाप्रयोगे) और वहां 'अलम्' शब्द का अप्रयोग सिद्ध हो। जहां अर्थ की प्रतीति होती है किन्तु शब्द का प्रयोग नहीं किया जाता है, उसे सिद्धाप्रयोग' कहते हैं।
उदा०-अपि पर्वतं शिरसा भिन्द्यात् । यह तो शिर से पहाड़ को तोड़ सकता है, यह ऐसा बलवान् है। अपि द्रोणपाकं भुजीत । यह तो द्रोण=२० सेर पकवान खा सकता है, यह ऐसा खाऊ है।
सिद्धि-भिन्द्यात् । भिद्+लिङ्। भिद्+यासुट्+तिप् । भिद्+यास्+सुट्+त् । भि श्नम् द्+या+त् । भिन्द्+या+त् । भिन्द्यात् ।
यहां 'भिदिर् विदारणे' (रुधा०प०) धातु से इस सूत्र से सम्भावना अर्थ में 'लिङ्' प्रत्यय है। ‘रुधादिभ्यः श्नम्' (३।१।७८) से 'श्नम्' विकरण प्रत्यय है। शेष कार्य 'भुजीत' के समान हैं (३।३।१५३)। लिविकल्पः (भविष्यति)
(४३) विभाषा धातौ सम्भावनवचनेऽयदि।१५५ । प०वि०-विभाषा ११ धातौ ७१ सम्भावनवचने ७१ अयदि ७१।
स०-सम्भावनमुच्यते येन स:-सम्भावनवचन:, तस्मिन्-सम्भावनवचने (उपपदसमास:) । न यदिति अयद्, तस्मिन् अयदि (नञ्तत्पुरुषः)।
अनु०-लिङ्, सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे इति चानुवर्तते।
अन्वय:-अयदि सम्भावनवचने धातौ सम्भावने च धातोर्विभाषा लिङ्, अलमिति चेत्, सिद्धाप्रयोगे।
अर्थ:-यद्-वर्जिते सम्भावनवचने धातावुपपदे सम्भावनेऽर्थे च वर्तमानाद् धातोः परो विकल्पेन लिङ् प्रत्ययो भवति, तच्चेत् सम्भावनमलमात्मकं भवति, सिद्धश्चेदलमोऽप्रयोगो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org