________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
स०-उतश्च अपिश्च तौ - उतापी, तयो:- उताप्योः (इतरेतरयोगद्वन्द्वः) । समानोऽर्थो ययोस्तौ समर्थों, तयोः समर्थयोः (बहुव्रीहि: ) । अन्वयः - समर्थयोरुताप्योर्धातोर्लिङ् ।
४२६
अर्थः- समर्थयो: समानार्थयो रुताप्योः शब्दयोरुपपदयोर्धातोः परो लिङ् प्रत्ययो भवति । बाढमित्यस्मिन्नर्थेऽनयोः समानार्थत्वं वर्तते । उदा०-(उत:) उत कुर्यात् । उत अधीयीत । (अपि) अपि कुर्यात् । अपि अधीयीत ।
'वोताप्योः' (३ । ३ । १४१) इति विकल्पाधिकारो निवृत्तः । इतः प्रभृति भूते कालेऽपि लिनिमित्ते क्रियातिपत्तौ सत्यां नित्यं लृङ् प्रत्ययो भवति, भविष्यति काले तु नित्यं लृङ् प्रत्ययो भवत्येव ।
आर्यभाषा - अर्थ - (समर्थयोः) समान अर्थवाले ( उताप्योः) उत और अपि शब्द उपपद होने पर (धातोः) धातु से परे (लिङ्) लिङ् प्रत्यय होता है । उत और अपि शब्द बाढम् =हां अर्थ में समानार्थक हैं।
उदा०
( उत) उत कुर्यात् | हां ! वह करे। उत अधीयीत । हां ! वह पढ़े। (अपि) अपि कुर्यात् | हां ! वह करे। अपि अधीयीत । हां ! वह पढ़े।
सिद्धि - (१) कुर्यात् । कृ+लिङ् । कृ+यासुट्+तिप् । कृ+उ+यास्+त् । कुर्+०+या+त् ।
कुर्यात् ।
यहां 'डुकृञ् करणे' (तना० उ० ) धातु से इस सूत्र से उत/ अपि उपपद होने पर 'लिङ्' प्रत्यय है। 'अत उत् सार्वधातुकें (६ |४ |१००) से उत्व, रपरत्व और ये च' ( ६ १४ ११०९) से उकार का लोप होता है ।
(२) अधीयीत । यहां 'अधि' उपसर्गपूर्वक 'इङ् अध्ययने' (अदा०आ०) धातु से इस सूत्र से पूर्ववत् लिङ्' प्रत्यय है।
विशेष- यहां से 'वोताप्योः' (३ | ३ | १४१) से विहित विकल्प का अधिकार निवृत्त होगया। यहां से आगे भूतकाल में क्रिया की असिद्धि होने पर लिनिमित्त में नित्य लृङ् प्रत्यय होता है। भविष्यत्काल में क्रिया की असिद्धि होने पर तो नित्य लृङ् प्रत्यय होता ही है।
लिङ् (भविष्यति ) -
(४१)
कामप्रवेदनेऽकच्चिति । १५३ ।
|
प०वि० - काम-प्रवेदने ७ । १ अकच्चिति ७ । १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org