________________
तृतीयाध्यायस्य तृतीयः पादः
३०१
उदा०
- (लट्) उपाध्यायश्चेदागच्छति - अथ त्वं व्याकरणमधीष्व । (लृट्) उपाध्यायश्चेदागमिष्यति- अथ त्वं व्याकरणमधीष्व । (लुट्) उपाध्यायश्चेदागन्ता - अथ त्वं व्याकरणमधीष्व । यदि उपाध्याय जी आ जायें तो तू उनसे व्याकरणशास्त्र का अध्ययन
करना ।
सिद्धि-(१) आगच्छति। यहां आङ् उपसर्गपूर्वक 'गम्लृ गतौं' (भ्वा०प०) धातु से इस सूत्र से भविष्यत्काल में 'लट्' प्रत्यय है।
(२) आगमिष्यति। यहां पूर्वोक्त 'गम्' धातु से पूर्ववत् 'लृट्' प्रत्यय है। (३) आगन्ता। यहां पूर्वोक्त 'गम्' धातु से पूर्ववत् लुट् प्रत्यय है।
लिङ्+लट्
(७) लिङ् चोर्ध्वमौहूर्तिके । ६ ।
प०वि०-लिङ् १।१ च अव्ययपदम् ऊर्ध्वमौहूर्तिके ७ । १ ।
स०-ऊर्ध्वं मुहूर्तादिति-ऊर्ध्वमुहूर्तम् (अस्मादेव निपातनात्पञ्चमीतत्पुरुषः ) । ऊर्ध्वमुहूर्ते भवम् ऊर्ध्वमौहूर्तिकम् 'बह्वचोऽन्तोदात्ताट्ठञ्' (४।३।६७) इति ठञ् प्रत्यय: । अस्मादेव निपातनाद् उत्तरपदवृद्धिः । अनु० - भविष्यति, लट्, विभाषा, लोडर्थलक्षणे इति चानुवर्तते । अन्वयः-लोडर्थलक्षणे धातोरूर्ध्वमौहूर्तिके भविष्यति विभाषा लिङ्
लट् च ।
अर्थ:-लोडर्थस्य = प्रैषादिकस्य लक्षणेऽर्थे विद्यमानाद् धातोः पर ऊर्ध्वमौहूर्तिके भविष्यति काले विकल्पेन लिङ् लट् च प्रत्ययो भवति, पक्षे लृट्लुटौ प्रत्ययौ भवतः ।
उदा०- (लिङ् ) ऊर्ध्वं मुहूर्ताद् = उपरि मुहूर्तस्य उपाध्यायश्चेद् आगच्छेत्-अथ त्वं व्याकरणधीष्व । (लट्) ऊर्ध्वं मुहूर्ताद् उपाध्यायश्चेदागच्छति-अथ त्वं व्याकरणमधीष्व । (लृट्) ऊर्ध्वं मुहूर्ताद् उपाध्यायश्चेदागमिष्यति-अथ त्वं व्याकरणमधीष्व । (लुट् ) ऊर्ध्वं मुहूर्ताद् उपाध्यायश्चेदागन्ता - अथ त्वं व्याकरणमधीष्व ।
आर्यभाषा-अर्थ- (लोडर्थलक्षणे) लोट् लकार के प्रैष = आज्ञादि अर्थ को लक्ष करने अर्थ में विद्यमान (धातोः) धातु से परे (ऊर्ध्वमौहूर्तिके) एक मुहूर्त से ऊपर के
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International