________________
२७१
तृतीयाध्यायस्य द्वितीयः पादः अन्वय:-विदिभिदिच्छिदेर्धातोर्वर्तमाने कुरच् तच्छीलादिषु।
अर्थ:-विदिभिदिच्छिदिभ्यो धातुभ्य: परो वर्तमाने काले कुरच् प्रत्ययो भवति, तच्छीलादिषु कर्तृषु।
उदा०-(विदि:) विदुर: पण्डितः। (भिदि:) भिदुरं काष्ठम् । (छिदि:) छिदुरा रज्जुः।
___आर्यभाषा-अर्थ-(विदिभिदिच्छिदे:) विदि, भिदि, छिदि (धातो:) धातुओं से परे (वर्तमाने) वर्तमानकाल में (कुरच्) कुरच् प्रत्यय होता है, यदि धातुओं का कर्ता (तच्छील०) तच्छीलवान्, तद्धर्मा वा तत्साधुकारी हो।
__उदा०-(विदि) विदुर: पण्डित: । ज्ञानशील पण्डित। (भिदि) भिदुरं काष्ठम् । भेदनशील (फटनेवाला) काठ। (छिदि) छिदुरा रज्जुः । छेदनशील (टूटनेवाली) रस्सी।
सिद्धि-(१) विदुरः। यहां विद ज्ञाने (अदा०प०) धातु से इस सूत्र से 'कुरच्' प्रत्यय है। कुरच्' प्रत्यय के कित् होने से पुगन्तलघूपधस्य च (७।३।८६) से प्राप्त लघूपध गुण का 'क्डिति च' (१।११५) से प्रतिषेध होता है।
(२) भिदुरम् । भिदिर् विदारणे (रुधा०प०)।
(३) छिदुरा । 'छिदिर् द्वैधीकरणे (रुधा०प०) । स्त्रीत्व विवक्षा में 'अजाद्यतष्टा (४।१।४) से 'टाप्' प्रत्यय होता है। क्वरप्
(१) इणनश्जिसर्तिभ्यः क्चरप् ।१६३ । प०वि०-इण्-नश्-जि-सर्तिभ्य: ५ ।३ क्वरप् १।१ ।
स०-इण् च नश् च जिश्च सर्तिश्च ते-इण्नजिसर्तय:, तेभ्य:इनश्जिसर्तिभ्यः (इतरेतरयोगद्वन्द्व:)।
अन्वय:-इण्नश्जिसर्तिभ्यो धातुभ्यो वर्तमाने क्वरप्, तच्छीलादिषु।
अर्थ:-इण्नश्जिसर्तिभ्यो धातुभ्य: परो वर्तमाने काले क्वरप् प्रत्ययो भवति, तच्छीलादिषु कर्तृषु।
उदा०-(इण्) इत्वरः । इत्वरी (स्त्री)। (नश्) नश्वरः । नश्वरी (स्त्री)। (जि) जित्वरः । जित्वरी (स्त्री)। (सर्तिः) सृत्वरः । सृत्वरी (स्त्री)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org