________________
१५
तृतीयाध्यायस्य प्रथमः पादः
अर्थ:-कर्तुः सम्बन्धिभ्यः कर्मभूतेभ्यः सुखादिभ्यः शब्देभ्यः परो वेदनायाम्=अनुभवत्यर्थे विकल्पेन क्यङ् प्रत्ययो भवति ।
1
" न कर्तृग्रहणेन वेदनाऽभिसम्बध्यते । किं तर्हि ? सुखादीन्यभिसम्बध्यन्ते। कर्तुयानि सुखादीनि ” ( महाभाष्यम्) ।
"
उदा०-सुखं वेदयते-सुखायते देवदत्तः । दुःखं वेदयते-दुःखायते
यज्ञदत्तः ।
सुख। दु:ख। तृप्त। गहन । कृच्छ्र । अस्र । अलीक । प्रतीप । करुण। कृपण। सोढ। इति सुखादयः ।
आर्यभाषा - अर्थ - (कर्तुः) कर्ता के सम्बन्धी (कर्मणः) कर्मभूत (सुखादिभ्यः) सुख आदि शब्दों से परे (विदनायाम्) अनुभव करना अर्थ में (वा) विकल्पेन (क्यङ) क्यङ् प्रत्यय होता है ।
उदा०-सुखं वेदयते-सुखायते देवदत्तः । देवदत्त सुख अनुभव करता है। दुःखं वेदयते-दु:खायते यज्ञदत्तः । यज्ञदत्त दुःख अनुभव करता है। सिद्धि-सुखायते । पूर्ववत् । -
क्यच् (करणविशेषे ) -
(१५) नमोवरिवश्चित्रङः क्यच् ।१६। प०वि०-नमस्-वरिवस्- चित्रङ: ५ ।१ क्यच् १ । १ ।
सo - नमश्च वरिवश्च चित्रङ् च एतेषां समाहारो नमोवरिवश्चित्रङ, तस्मात् - नमोवरिवश्चित्रङ : ( समाहारद्वन्द्व : ) ।
अनु० - वा, कर्मणः करणे इति चानुवर्तते ।
अन्वयः - कर्मणो नमोवरिवश्चित्रङः करणे वा क्यच् ।
अर्थः- कर्मभूतेभ्यो नमोवरिश्चित्रभ्यः शब्देभ्यः परः करणे =करोति विशेषेऽर्थे विकल्पेन क्यच् प्रत्ययो भवति ।
1
उदा०-नमस: पूजायाम् । नमः करोति-नमस्यति । नमस्यति देवान् । वरिवसः परिचर्यायाम् । वरिवः करोति - वरिवस्यति । वरिवस्यति गुरून् । चित्रङ आश्चर्ये । चित्रं करोति - चित्रीयते ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org