SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १४ पाणिनीय-अष्टाध्यायी-प्रवचनम् क्यङ् (करणे) (१३) शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे।१७। प०वि०-शब्द-वैर-कलह-अभ्र-कण्व-मेघेभ्य: ५।१ करणे ७१। स०-शब्दश्च वैरञ्च कलहश्च अभ्रश्च कण्वं च मेघश्च ते शब्द॰मेघाः, तेभ्य:-शब्द०मेघेभ्यः (इतरेतरयोगद्वन्द्वः)। अनु०-वा, क्यङ् कर्मण इति चानुवर्तते। अन्वय:-कर्मभ्य: शब्द०मेघेभ्य: करणे वा क्यङ् । अर्थ:-कर्मभूतेभ्य: शब्दवैरकलहाभ्रकण्वमेघेभ्य: शब्देभ्य: पर: करणे करोत्यर्थे विकल्पेन क्यङ् प्रत्ययो भवति । उदा०-शब्द:-शब्दं करोति-शब्दायते । वैरम्-वैरं करोति-वैरायते। कलह:-कलहं करोति-कलहायते। अभ्र:-अभं करोति-अभ्रायते । कण्वम्-कण्वं करोति-कण्वायते। मेघ:-मेघं करोति-मेघायते। आर्यभाषा-अर्थ:-(शब्द॰मेघेभ्य:) शब्द, वैर, कलह, अभ्र, कण्व, मेघ शब्दों से परे (करणे) करने अर्थ में (वा) विकल्प से (क्यङ्) क्यङ् प्रत्यय होता है। उदा०-शब्द-शब्दं करोति-शब्दायते । शब्द करता है। वैर-वैरं करोति-वैरायते। वैर करता है। कलह-कलहं करोति-कलहायते। झगड़ा करता है। अभ्र-अभ्रं करोति-अभ्रायते। बादल बनाता है। कण्व-कण्वं करोति-कण्वायते। पाप करता है। मेघ-मेघं करोति-मेघायते । बरसाती बादल बनाता है। सिद्धि-शब्दायते । पूर्ववत्। क्यङ् (वेदनायाम) (१४) सुखादिभ्यः कर्तृ वेदनायाम् ।१८। प०वि०-सुख-आदिभ्य: ५।३ कर्तृ ६।१ (लुप्तषष्ठी) वेदनायाम् ७१। स०-सुखम् आदिर्येषां ते सुखादयः, तेभ्य:-सुखादिभ्य: (बहुव्रीहिः)। अनु०-वा, क्यङ्, कर्मण इति चानुवर्तते । अन्वय:-कर्तुः कर्मभ्य: सुखादिभ्यो वा क्यङ् वेदनायाम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy