________________
तृतीयाध्यायस्य द्वितीयः पादः
२४३ अर्थ:-अर्ह-धातो: परो वर्तमाने काले शतृ प्रत्ययो भवति, प्रशंसायां गम्यमानायाम्।
उदा०-अर्हन् भवान् विद्याम् । अर्हन् भवान् पूजाम् ।
आर्यभाषा-अर्थ-(अर्हः) अर्ह (धातो:) धातु से परे (वर्तमाने) वर्तमानकाल में (शतृ) शतृ प्रत्यय होता है, यदि वहां (प्रशंसायाम्) प्रशंसा अर्थ प्रकट हो।
उदा०-अर्हन् भवान् विद्याम् । आप विद्या प्राप्त करने योग्य हो। अर्हन् भवान् पूजाम् । आप पूजा के योग्य हो।
सिद्धि-अर्हन् । यहां 'अर्ह पूजायाम् (भ्वा०प०) धातु से इस सूत्र से प्रशंसा की अभिव्यक्ति में शतृ' प्रत्यय है। शेष कार्य 'अधीयन् (३।२।१३०) के समान है।
तच्छीलादिकर्तृप्रकरणम् आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु।१३४ ।
प०वि०-आ अव्ययपदम्, क्वे: ५।१ तच्छील-तद्धर्म-तत्साधुकारिषु ७।३।
स०-स: (धात्वर्थ:) शीलं यस्य स तच्छील: । स: (धात्वर्थः) धर्मो यस्य स तद्धर्मा, साधु करोतीति साधुकारी । तस्य (धात्वर्थस्य) साधुकारीति तत्साधुकारी । तच्छीलश्च तद्धर्मा च तत्साधुकारी च ते-तच्छीलतद्धर्मतत्साधुकारिणः, तेषु-तच्छीलतद्धर्मतत्साधुकारिषु (बहुव्रीहयादिगभिततरेतरयोगद्वन्द्व:)।
अनु०-वर्तमाने इत्यनुवर्तते। अन्वय:-आ क्वेर्धातोस्तच्छीलादिषु वर्तमाने प्रत्ययाः ।
अर्थ:-'भ्राजभास०' (३।२।१७७) इति क्विप्-पर्यन्तं ये प्रत्ययास्ते धातोस्तच्छीलतद्धर्मतत्साधुकारिष्वर्थेषु वर्तमाने काले भवन्तीत्यधिकारोऽयम्।
उदा०-अग्रे यथास्थानमुदाहरिष्यामः ।
आर्यभाषा-अर्थ- (क्वे:) 'भ्राजभास०' (३।२।१७७) से इस सूत्र के क्विम्' प्रत्यय (आ) तक (धातो:) धातु से (तच्छीलतद्धर्मतत्साधुकारिषु) तच्छीलवान्, तद्धर्मा और तत्साधुकारी अर्थों में (वर्तमाने) वर्तमानकाल में होते हैं। यह अधिकार सूत्र है।
उदा०-आगे यथास्थान उदाहरण दिये जायेंगे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org