________________
१२
क्यङ् (क्रमणे) -
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(१०) कष्टाय क्रमणे | १४ |
प०वि० - कष्टाय ४ । १ क्रमणे ७ । १ । अनु० - वा, क्यङ् इत्यनुवर्तते, न क्यष् । अन्वयः - चतुर्थी समर्थात् कष्टात् क्रमणे वा क्यङ् ।
अर्थ:- चतुर्थी समर्थात् कष्टशब्दात् परः क्रमणे = अनार्जवेऽर्थे विकल्पेन क्यङ् प्रत्ययो भवति ।
उदा० - कष्टाय कर्मणे क्रामति-कष्टायते ।
आर्यभाषा- अर्थ - (कष्टाय ) चतुर्थी - समर्थ कष्ट शब्द से परे (क्रमणे) कुटिलता अर्थ में (वा) विकल्प से (क्यङ् ) क्यङ् प्रत्यय होता है ।
उदा०-कष्टाय कर्मणे क्रामति-कष्टायते । कष्ट के हेतु पाप कर्म करने लिये उत्साह करता है।
सिद्धि-कष्टायते । कष्ट+ ङे+क्यङ् । कष्ट+य। कष्टाय । कष्टाय लट्/ कष्टाय+शप्+त। कष्टाय + अ+ते । कष्टायते। यहां सब कार्य पूर्ववत् हैं। विशेष- सूत्र में कष्ट शब्द चतुर्थ्यन्त पढ़ा है अत: चतुर्थी समर्थ 'कष्ट' शब्द का ग्रहण किया जाता है ।
क्यङ् ( आवर्तने चरणे च)
(११) कर्मणो रोमन्थतपोभ्यां वर्तिचरोः | १५ | प०वि० - कर्मणः ५ ।१ रोमन्थ - तपोभ्याम् ५ | २ वर्तिचरोः ७ । २ । सo - रोमन्थश्च तपश्च ते रोमन्थतपसी, ताभ्याम् - रोमन्थतपोभ्याम् (इतरेतरयोगद्वन्द्वः) । वर्तिश्च चर् च तौ वर्तिचरौ, तयो:-वर्तिचरो: (इतरेतरयोगद्वन्द्वः) ।
अनु०-वा, क्यङ् इति चानुवर्तते ।
अन्वयः-कर्मभ्यां रोमन्थतपोभ्यां वर्तिचरोर्वा क्यङ् ।
अर्थ :- कर्मभूताभ्यां रोमन्थ - तपोभ्यां शब्दाभ्यां परो यथासंख्यं वर्तिचरोरर्थयोर्विकल्पेन क्यङ् प्रत्ययो भवति ।
उदा० - रोमन्थ:- रोमन्थं वर्तयति - रोमन्थायते । गौः । तप:तपश्चरति तपस्यति ब्रह्मचारी ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org